पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७६ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३१५ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः॥ त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ॥ ४८॥ सोङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ॥ अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः । अङ्गदो ऽतिविद्धाङ्गो खालिपुत्रो न कम्पूते । शिलापादपवूर्षाणि तूय मूर्छि ववर्ष प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः । कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् । आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् । ध्रुवोर्विव्याध बाणाभ्यामुर्काभ्यामिव कुञ्जरम् ॥ तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ ५२ ॥ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ॥ सालमासन्नमेकेन परिजग्राह पाणिना ॥ ५३ ॥ संपीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च ॥ किंचिदभ्यवनम्यैनमुन्मैमाथ यथा गजः ॥ ५४ ॥ तमिन्द्रकेतुप्रतिमै वृक्ष मन्दरसनिभम् ॥ समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् । स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ॥ ५५ ॥ अङ्गदो विंच्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ ५६ ॥ अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे । दुरासदं दैरिश्रेष्ठं रामायान्ये न्यवेदयन् ॥ ५७ ॥ रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे ॥ व्यादिदेश हरिश्रेष्ठाञ्जाम्बवप्रमुखांस्ततः ॥ ५८ ॥ तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ ततो दुमशिलाहस्ताः कोपसंरक्तलोचनाः ॥ रिरक्षिषन्तोऽभ्यपतनङ्गदं वानरर्षभाः ॥ ६० ॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ ६१ ॥ समीक्ष्यापततस्तांस्तु वानरेन्द्रान्महाबलान् ।। आस्रवार शरौघेण मैंगेनेव जलाशयम् ॥ ६२॥ तस्य बाणपथं प्राप्य न शेकुरतिवर्तितुम् । वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ ६३ ॥ तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् । अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ ६४ ।। अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे । शैलसानुचरं नागं वेगवानिव केसरी ॥ ६५॥ उत्पाट्य च भैहाशैलानश्वकर्णान्धवान्बहून् । अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः ॥ ६६ ॥ तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदम् । कुम्भकर्णात्मजः शीघ्र चिच्छेद निशितैः शरैः ।। ६७॥ विवशः सन् ॥ ४२-४७ ॥ तोमरैः अङ्गैः ॥।४८। रिरक्षिषन्तः रक्षितुमिच्छन्तः ॥ ६०-६१ ॥ जला अकुण्ठधारैः अभग्नानैः । निशितैः उत्कृष्टैः । | शयं जलप्रवाहं । नगेनेव वृक्षेणेव । वृक्षौघपरोयं तीक्ष्णैः अयोमयैः। « तीक्ष्णं गरे मृधे लोहे ” इति शब्दः । ६२ । अतिवार्तर् अतिक्रम्याभिमुख्येन रत्नमाला ॥ ४९ ॥ न कम्पते नाकम्पत ॥ ५० ॥ गन्तुं ॥ ६३ ॥ तांस्त्वित्यादिश्लोकद्वयमेकान्वयं । तान् वृक्षान् प्रचिच्छेद शिलाः बिभेदेत्यन्वयः । ॥ ५१-५३ ॥ संपीड्येति । एकहतस्य नेत्रपिधा- | अङ्गदं पृष्ठतः कृत्वा । अन्यथा हन्यादिति भावः।। नव्यापृतत्वादेकहस्तेनोत्पाटनासम्भवादुरसि संपीड्ये- शैलसानुचरं शैलसानुचरत्वेनातिबलं । “ गिरिचर त्युक्तं । अभिनिवेश्य । अभिगृत्यर्थः ।। ५४-५९॥ | इव नागः प्राणसारं बिभर्ति ” इति कालिदासोक्तेः ति० भ्रातृजं भ्रातृपुत्रं । प्लवगेश्वरः सुग्रीवः । एतदन्तमष्टमीरात्रौयुद्धे। अतःपरंनवमीदिनयुद्धे ॥ ६४ ॥ [ पा० ] १ ख. आकर्णमुतैर्निशितैःक. च, छ. ज. ट. अकुण्ठधारैर्विशिखैस्तीक्ष्णैः२ ङ. झ. ट. मुन्ममाथमहारणे. ३ घ. विव्यथेतीक्ष्णंपपातस. ऊ. झ. ट. विव्यथेऽभीक्ष्णंसपपात. ४ ङ. झ. ट. हरिश्रेष्ठाराघवाय. ५ ग, घ, छ. ज. दृष्टं ६ क. ख. ग. राक्षसेन्द्रोमहाबलान् . च. ज. राक्षसेन्द्रोमहाबलः. ७ क. वेलयेवजलाशयं . ८ क. ग. घ. बाणरयं. ९ झ. शेकुरपिवीक्षितुं . १० ङ, झ. अभिदुद्रावसुग्रीवःकुंभकर्णात्मजंरणे. च. छ, अ. ट. अभिदुद्राववेगेनकुंभकर्णात्मजंरणे. ११ क. महावेगःसोश्वकर्णान्