पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३४७ शरैरतिमहावेगैर्वेगवात्रावणात्मजः ॥ सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥ १९ ॥ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः॥ शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ॥ २० ॥ इन्द्रजिघारमनः कर्म प्रसमीक्ष्याधिगम्य च ॥ विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ २१ ॥ पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः॥ आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः॥२२ ॥ अद्य गोमायुसङ्गवश्च श्येनसङश्च लक्ष्मण ॥ गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥ २३ ॥ [ अद्य यास्यति सौमित्रे कर्णगोचरतां तव । तर्जनं यमदूतानां सर्वभूतभयावहम्]॥ २४ ॥ क्षत्रबन्धं सदाऽनार्यं रामः परमदुर्मतिः ॥ भक्तं भ्रातरमधेच त्वां द्रक्ष्यति मया हतम् ॥ २५ ॥ विशस्तकवचं भूमौ व्यपविद्धशरासनम् ॥ हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ २६ ॥ इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ॥ हेतुमद्वाक्यमेत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥ २७ ॥ वाग्बलं त्यज दुर्मुखं क्रूरकर्मासि राक्षस ॥ अथ कस्माद्वदस्येतत्संपादय सुकर्मणा ॥ २८ ॥ अकृत्वा कस्थसे कर्म किमर्थमिह राक्षस ॥ कुरु तत्कर्म येनाहं भृद्दध्यां तव कथनम् ॥ २९ ॥ अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् । अविकत्थन्वधिष्यामि त्वां पश्य पुरुषाधम ॥ ३० ॥ इत्युक्त्वा पञ्च नाराचानाकर्णपूरिताच्शितान् ॥ निजघान महावेगाँउक्ष्मणो राक्षसोरसि ॥ ३१॥ सुपत्रवाजिता बाणा ज्वलिता इव पॅनगाः । नैऋतोरस्यभासन्त सवितृ रईमयो यथा ॥ ३२॥ स शरैराहतस्तेन सरोषो रावणात्मजः॥ सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ ३३ ॥ स बभूव तदा भीमो नरराक्षससिंहयोः । विमर्दस्तुमुलो युद्धे पॅरस्परजयैषिणोः ॥ ३४ ॥ उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ । उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ॥ उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ३५ ॥ युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥ ३६ ॥ बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ ॥ युयुधाते महात्मानौ तदा केसरिणाविव ॥ ३७ ॥ बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ । नैरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३८ ॥ पेतुः। भूमाविति शेषः ॥ १८ ॥ शरैरिति । अति |॥ २६-२७ अथ इदानीं ॥ २८--३१ ॥ सुप- विव्याधेत्यन्वयः।‘‘ व्यवहिताश्च ” इति व्यवहित- त्रवाजिताः सुपत्रैः संजातवेगाः ॥ ३२-३३॥ प्रयोगः ॥ १९–२० ॥ अधिगम्य फलवत्त्वेन दृष्ट्वा | विमर्दः संघर्षः ।। ३४ ॥ उभौ हीत्यादिसार्धश्लोक ॥ २१-२५ ॥ विशस्तेति । विशस्तं भिन्नं कवचं | एकान्वयः । सुविक्रान्तौ सुषुपराक्रमौ ॥ ३५ ॥ यस्य तं त्वां । रामो द्रक्ष्यतीत्यनुषङ्गण योजना युयुधाते इत्याद्यर्थं ।। ३६ । बलशब्दो बलशञ्जिवन्द्र स्य संबन्धिवचोव्याहृत्य कृतार्थास्मि कृतकृत्योस्मीतिजानीषइतियोजना ॥ १४ ॥ ती० पत्रिणः शितधाराइत्यादिश्लोकचतुष्टयस्य श्रुतार्थःस्पष्टः । वास्तवार्थस्तुहेसौमित्रे मत्कार्मुकच्युताःशराः अप्रयोजकशराइत्यर्थः । तेतवशितधाराः जीवितान्तकाःपत्रिणः । मत्तःजीवितमादास्यन्तइतिसंबन्धः । अथेति । हेलक्ष्मण खामुद्दिश्य मया लक्ष्म्या लीवर्येणसहगतासुं मामितिशेषः। गोमा- उवादयः निपतन्खितिसंबन्धः । क्षत्रबन्धुमिति । सदानर्थमित्यत्रसदा न आऍमितिच्छेदः। हेसदान दानसहित दानशीलेल्यर्थः । क्षत्रबन्धं क्षत्रस्यराघवस्यबन्धं । अतःभ्रातरं अतएवार्यंमयाअहतंत्खां परमदुर्मतिः परमदुष्टेष्वपिमतिःअनुग्रहरूपायस्यासःरामः अद्यद्रक्ष्यतीतिसंबन्धः । विशस्तेति । हेसौमित्रे खां विनेतिशेषः । विशस्तकवचं हृतोत्तमाङ् मयानिहतंसैन्यंत्वितिशेषः। रामोद्र क्ष्यतीतिपूर्वेणसंबन्धः ॥ २२-२६ ॥ [ पा० ] १ अयंलोकः ज. पठेदृश्यते. २ घ. मन्वर्थे. ङ. च. छ. झ. झ. ट. मर्थज्ञोलक्ष्मणः, ३ ङ. च. छ. झ. क्रूरकर्म- न्हि. ४ ङ.-ट. श्रद्धेयं. ५ ख. खामद्यपुरुषान्तक. ग. ङ. झ. खांपश्यपुरुषादन. घ. ज.ज.. खांपश्यपुरुषादक. ६ क. ख. पावकाः ७ क,-घ. परस्परवधैषिणोः, ८ ङ, झ. ट. विठन्तौबलसंपन्नावुभौ. ९ झ. नरराक्षसमुख्यौतौ ,