पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः । आसाद्य पर्वतश्रेष्ठ त्रिः प्रक्रम्य गिरेः शिरः ॥३४ फुडनानातरुगणं समुत्पाट्य महाबलः॥ गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥ ३५ ॥ स नीलमिव जीमूतं तोयपूर्ण नभःस्थलात् ॥ आपपात हीत्वा तु हनुमाञ्शिखरं गिरेः ॥ ३६ ॥ समागम्य महावेगः संन्यस्य शिखरं गिरेः॥ विश्रम्य किंचिद्धनुमान्सुषेणमिदमब्रवीत् ॥ ३७ ॥ ओषधीं नावगच्छामि तामहं हरिपुङ्गव ॥ तदिदं शिखरं कृत्रं गिरेस्तस्याहृतं मया ॥ ३८ ॥ एवं कथयमानं तं प्रशस्य पवनात्मजम् । सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥ ३९ ॥ विसितास्तु बभूवुस्ते रंणे वानरराक्षसाः॥ दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ॥ ४० ॥ ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः॥ लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः॥ ४१ ॥ सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा । विशल्यो विरुजः शीघ्रतुदतिष्ठन्महीतलात् ॥ ४२ ॥ तमुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् । साधुसाध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ ४३ ॥ एहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा । सँखजे स्नेहगढं च बाष्पपर्याकुलेक्षणः॥ ४४ ॥ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ॥ दिष्टया त्वां वीर पश्यामि मरणात्पुनरागतम् ॥ ४५ ॥ न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण । को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ॥४६ इत्येवं वदतस्तस्य राघवस्य महात्मनः ॥ खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥४७॥ तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम । लघुः कश्चिदिवसवो नैवं वक्तुमिहार्हसि ॥ ४८॥ न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ । लक्षणं हि महत्रस्य प्रतिज्ञापरिपालनम् ॥ ४९ ॥ नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ॥ वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ५ कार्यः ॥ ३१-३३॥ इति संचिन्त्येत्यादिश्लोकद्वय- | त्यादिश्लोकद्वयमेकान्वयं ॥ ४५-४७ ॥ तां प्रतिज्ञां सेकान्वयं । समतोलयत् उक्षिपत् ।। ३४–३६ ॥ | रावणं हत्वा विभीषणमभिषेक्ष्यामीत्येवंरूपां ।४८. – संन्यस्य सेनामध्ये निक्षिप्य ॥३७-४४॥ अब्रवीदि- ४९ ॥ नैराश्यं सीतयां विजये चोपेक्षां ॥ ५० ॥ यदिगच्छामि तदादोषः स्यात् लक्ष्मणप्राणप्रणाशेनप्रत्यवेयां । वैक्लब्यं अचातुर्यप्रयोजकचित्तलोलता । यतुनागोजिभटेन ‘विश ल्यकरणीपदंतन्मात्रपरंरूद्याव्याख्याय, लक्ष्मणस्यसप्राणखादवश्यमपेक्षितांयद्यष्टहीखाऽन्यांवातदाभासांगृहीखागच्छामितदा महः वैक्लब्यं अचतुराज्ञखदिदोषः स्यात् । विचारकरणेतु कालाख्यंयेनलक्ष्मणस्यश्राणनाशोदोषः स्यात्’ इतिव्याख्यातंतत्तु पूर्वसुषेणेन चतसृणामोषधीनामानयनविषयेस्पष्टमुक्तेरेकमात्रानधिकारिकखाद्वहूनांवानराणामेतच्चतुष्टययोग्यावस्था(वत्त्वोज्जीवनादिवैचित्र्यदर्श नाच्च ‘ओषधीर्नावगच्छामि’ इत्युत्तरत्रोतेश्वसंभावितम् ॥ ॥ ति० त्रिः प्रकंप्य स्नपुरास्थापितस्यापिपुनरुत्पार्टनार्थात्रिः कंपनं । पूर्वसंगृहीतौषधीनांमूर्छिछतयूथपेषुव्ययापुनरस्यनेषणमितिबोध्यं स० हनुमद्वलेनप्राक्तोपिटङ्कितवदतिश्लेषात्रिःकंपनमि तिमन्तव्यं ॥ ३४ ॥ स० नभस्तलादितिबहुषुपुस्तकेषुपाठः । यत्तुनागोजिभट्टः स्थलान्नभउत्पपातेतिव्याख्यातवान् तत्तु पञ्चम्येव साक्षादितिभ्रान्येवयोजनऽसामथ्यैनचेतिीयं । नभस्तलादि तिल्यबलोपनिमित्तापञ्चमी । नभस्तलंप्राप्योत्पपातेत्यन्वयः । स्थल- शब्दोपपदान्तरसापेक्षार्थइतिभ्वादिपदाभावलक्षणयास्थलविशेषस्यकल्प्यत्वश्च ॥ ३६ ॥ रामनु० ‘‘लक्ष्मणायददौनस्यंसुषेणः परमौषधै’ इत्येतत्प्रकारेणेन्द्रजिद्युद्धेशल्यपीडितानांलक्ष्मणादीनांचिकित्सांकृतवतासंगृहीतौषधेनसुषेणेन “ सौम्यशीघ्रमितोगत्वा शैलमोषधिपर्वतम्” इतिहनुमत्प्रेषणमनुपपन्नमिवप्रतीयते । अत्रलक्ष्मणविभीषणादिचिकित्सायामोषधिजातंसवैविनियुक्तमितिपरि हारस्यवक्तुंशक्यपिअविस्मरणशीलयहनुमतः खेनैवाचिरस्थापितपर्वत विषयकंप्रतर्केणावगच्छामीत्यभिधानं त्रिःप्रकंप्योत्पाटनं चविरुद्धमिवप्रतीयते । अत्रपरिहारोविद्वद्भिश्चिन्तनीयः ॥ ४१ ॥ स० यंपूर्वमालिङ्गयबाष्पपर्याकुलेक्षणोऽभूत्तंढंसस्खजे ॥४४॥ ति० शिथिलयावाचाखिन्नः ‘कोहिमेजीवितेनार्थःइत्येवंरूपया रावणवधविभीषणराज्यदानप्रतिज्ञाशैथिल्यकरयावाचाखिनइत्यर्थः ४७ ॥ स० प्रतिज्ञां प्रतिज्ञायतइतिप्रतिज्ञा रावणवधादिः ॥ ४८ [ पा० ] १ ख. ग. श्रेष्ठमप्रकंप्योगिरेस्तटं. २ ग. घ. झ. अ. गिरेस्तटं. ३ ङ. झ. अ. ट, उत्पपात . ४ झ. --ट. ओषधीर्नावगच्छामिताअहं. ५ ज, झ, ज, ट, सर्ववानरपुङ्गवाः, घ, ङ्क्षवानरपुङ्गवः, ६ च छ, य. ट. सस्खलंगाढमालिङ्गयः