४ ४ ७ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ न हि पश्यामि तत्सौम्य पृथिव्यामपि वानर । सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ॥२१॥ हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ॥ राज्यं वा त्रिषु लोकेषु नैतदहीति भाषितुम् ॥२२॥ एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ॥ गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ २३ ॥ भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्किणि । स्निग्धमेवंविधं वाक्यं वमेवार्हसि भाषितुम् ॥ २४ तवैतद्वचनं सौम्ये सारवनिग्धमेव च ॥ रतौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ २५॥ अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः॥ हतशत्रु विजयिनं रामं पश्यामि सुस्थितम् ॥ २६ ॥ तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २७ अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ॥ बुद्धा ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २८ ॥ श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः॥ बलं शौर्यं श्रुतं सचं विक्रमो दाक्ष्यमुत्तमम् ॥२९॥ तेजः क्षमा धृतिधैर्य विनीतत्वं न संशयः एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥३ अथोवाच पुनः सीतामसंभ्रान्तो विनीतवत् । प्रगृहीताञ्जलिर्हर्षात्सीतायाः प्रमुखे स्थितः ॥३१॥ प्रियवचनं ॥ २० ॥ सदृशप्रदेयवस्त्वपि नपश्यामी- | नानृग्वेदेत्यादिना राम इव स्वयमपि तद्वाक्यसौष्ठवं त्याह-न हीत्यादिना । अत्र अपिशब्देन अन्तरिक्ष- | प्रशंसति--अतीति । अतिलक्षणसंपन्नं आकाङ्कायो स्वगौं समुच्चीयेते । त्रिष्वपि लोकेषु न पश्यामि ग्यतासन्निधिमत्पवत्त्वरूपवाक्यलक्षणसंपन्नं ।fबहु यत् मत्प्रियाख्याने विषये तव दातुं समं अत्यन्तस- | व्याहरताऽनेन न किंचिदपशब्दितं ” इत्युक्तशब्द दृशं भवेत् ।। २१ । उक्तंविवृणोति-हिरण्यमिति । | साधुत्वसंपन्नं । माधुर्यगुणभूषितं “” संश्रवे मधुरंवा- हिरण्यं रजतं । रजतहिरण्यं’’इति श्रुतेः । त्रिषु | क्यम्” इत्युक्तरीत्या श्रवणमात्रेणानन्दजनकत्वरूपम लोकेषु राज्यं त्रिलोकविषयराजत्वं । नैतदर्हति | धुर्यगुणभूषितं । अष्टाङ्गया “प्रहणं धारणं चैव स्मरणं भाषितुं । हिरण्यावेतरसर्वमपि प्रियाख्यानसमत्वेन | प्रतिपादनम् ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च भाषितुंनार्हतीत्यर्थः ॥ २२ ॥ प्रमुखे अग्रे ।। २३ ॥| धीगुणाः ” इत्युक्ताष्टाङ्गयुक्तया बुद्ध्या युक्तं । तादृ- प्रतिप्रियवचनं न पश्यामीत्यस्योत्तरमाह-भर्तुरिति । शबुद्धिपूर्वकमित्यर्थः ।। २८ । न केवलं वाक्यतः एवंविधं स्निग्धं वाक्यं भाषितुं त्वमेवार्हसि नान्या । गुणतोपि श्लाघ्योसीत्याह-श्लाघनीय इत्यादिना अनेन सर्वोत्तरं प्रीतिप्रियवचनं मठं दत्तमित्युक्तं श्लोकद्वयेन । अनिलस्य श्लाघनीयः पुत्रः । अनिल भवति । २४ । प्रियाख्यानसदृशं प्रदेयं वस्तु नास्ती- | दपि संजीवनकर इत्यर्थः । संजीवनं चानृशंस्यधर्मा- त्यस्योत्तरमाह-तवेति । एतत् प्रत्यभिनन्दनं न | दित्याह-परमधार्मिक इति । बलं प्रयाससहिष्णुत्वं । पश्यामीत्येतत् । सारवत् प्रत्यभिनन्दनवचनराहित्य- | शौर्ये युद्धोत्साहः । श्रुतं शास्त्रज्ञानं । “ शात्रा श्रुतं कथनेन मद्वचनस्य निरवधिकप्रीतिजनकत्वकथना- | वधूतयोः ” इत्यमरः । सत्वं शारीरः सारः । विक्रमः न्महातात्पर्यवत् । स्निग्धं मयि प्रीतिपुरःसरं । एत- | पराक्रमः। दाक्ष्यं सामर्थे । उत्तममिति सर्वविशेषणं । द्वचनश्रवणेनैव मयू सर्वोत्तरं वस्तु समुपछब्धमिति | तेजः पराभिभवन्सामर्थे । क्षमा अपराधसहिष्णुत्वं भावः ॥ २५ ॥ पूर्वमेव लब्धदेवराज्यादिकस्य तत्प्र- | धृतिः प्रभावः । धय क्षोभके सत्यक्षोभ्यत्वं । विनी दानं निरर्थकमित्याशयेनाह-अर्थत इति । रामं विज | तत्वं विनयवत्त्वं । विशिष्टनीतिमत्त्वं वा । एते चन्ये यिनं पश्यामीति यत् अस्मात् अर्थतः प्रयोजनात् । | च दयादयो बहवो गुणाः त्वय्येव शोभनाः त्वामा- देवराज्यादयो गुणाः उत्कर्षाः अयमधिगम्य शोभमाना भवन्ति । न नाह प्राप्ताः । रामविज- | संशयः यदर्शनमेव राज्यादिकमित्यर्थः ॥ २६–२७ ॥ | मसतो गुणानारोप्य स्तौमीत्यर्थः ॥ २९-३१ ॥ शि० तत्रबलं शरीरसामर्थे। सखमिन्द्रियसामर्थे । विक्रमःपादविक्षेपविशेषइतिनपौनरुक्तयं । श्लोकद्वयमेकान्वयि ॥ २८ ॥ ति० असंभ्रान्तः स्रयाऽविकृतचित्तः । विनीतवत् विनीताईं ॥ ३१ ॥ इतिषोडशोत्तरशततमःसर्गः ॥ ११६ ॥ [ पा० ॥. २ ग. ड. झ. अ, ट. एतन्नार्हति. ३ छ, झ, ट, त्वमेवाहस्यनिन्दिते. १ ङ. झ. ट. दखभवेत्सुखं • • ९ २
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति