पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ॥ त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥६॥ चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन । निमत्रितस्वया भ्राता धर्ममाचरता सताम् ॥ ७ ॥ स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः ॥ ८ ॥ सर्वमेतन्महाबाहो यथावद्विदितं तव ॥ त्वयि प्रतिप्रयाते तु यद्वत्तं तन्निबोध मे ॥ ९ ॥ अपयाते स्वयि तदा समुद्रान्तमृगद्विजम् ॥ परिवूनमिवात्यर्थं तद्वनं समपद्यत ॥ १० ॥ तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगायुतम् । प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ ११ ॥ तेषां पुरस्ताद्धलवान्गच्छतां गहने वने ॥ निनदन्सुमहानादं विराधः प्रत्यदृश्यत ॥ १२ ॥ तमुत्क्षिप्य महानादूर्ध्वंबाहुमधोमुखम् । निखाते प्रक्षिपन्ति स नदन्तमिव कुञ्जरम् ॥ १३ ॥ तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ । सायाहे शरभङ्गस्य रम्यमाश्रममीयतुः॥ १४ ॥ शरभङ्ग दिवं प्राप्ते रामः सत्यपराक्रमः । अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥ १५ ॥ ततः पश्चाच्छूर्पणखा रामपाश्र्वमुपागता ॥ १६ ॥ ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ प्रगृह्य खजं चिच्छेद कर्णनासं महाबलः ॥ १७ ॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ हतानि वसता तत्र राघवेण महात्मना ॥ १८ ॥ एकेन सह संगम्य रणे रामेण सङ्गताः । अहश्चतुर्थभागेन निःशेषा राक्षसाः कृताः ॥ १९ ॥ महाबला महावीर्यास्तपसो विघ्नकारिणः॥ निहता राघवेणाजौ दण्डकारण्यवासिनः ॥ २० ॥ राक्षसाथ विनिष्पिष्टाः खरस्थ निहतो रणे ॥ २१ ॥ [ दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम् ॥] ततस्तेनार्दिता बाला रावणं समुपागता ॥ २२ ॥ रावणानुचरो घोरो मारीचो नाम राक्षसः । लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ २३ ॥ अथैनमब्रवीद्रामं वैदेही गृह्यतामिति । अंहो मनोहरः कान्त आश्रमो नो भविष्यति ।। २४॥ ततो रामो धेनुष्पाणिर्धावन्तमनुधावति ॥ स तं जघान धावन्तं शरेणानतपर्वणा ॥ २५॥ अथ सौम्यं दशग्रीवो मृगं याते तु राघवे । लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥२६ ॥ यः । अमित्रकर्शनेत्यनेन राज्यकरणसामथ्र्यं स्वस्यस- | कृता इत्यन्वयः । अहश्चतुर्थभागेनेत्यत्रअहश्चतुर्थी त्यपि ज्येष्ठानुवृत्त्यर्थं निमश्रित इति गम्यते ॥५-९॥ | यामः तस्य भागः त्रिपादघटिकान्यूनाञ्चशः समुद्धान्तेति । अपूर्वपुरुषदर्शनेनेति भावः । परियूनं | तेन । अन्यथा अर्धाधिकमुहूर्तेनेति पूर्वोक्तविरोधः परितप्तं ॥ १० ॥ तत् प्रसिद्धं । हस्तिभिः वनगजैः | प्रसज्येत ॥ १९ ॥ महाबला इति श्लोके तपसो मृदितं ॥११-१२। निखाते अवटे । प्रक्षिपन्ति स्मेति | बिन्नकारिण इत्युक्त्या राक्षसहननं तपोविन्नशान्त्य- बहुवचनेन सीतयाऽपि तत्र किंचित्साहाय्यं कृतमिति | र्थमिति दर्शितं । २० । राक्षसा इत्यधे ॥ २१ ॥ गम्यते ।१३- -१५॥। ततः पश्चादित्यर्ध ॥१६॥ कर्ण- | तत इत्यर्थ । । बाळा मूखी । “ मूर्वेऽर्भकेपि बालः नासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः॥ १७-१८॥| स्यात् ’ इत्यमरः॥ २२-२३ । एनं रामं । गृह्यतां संगताः पार्थक्येन विना सर्वे राक्षसाः परस्परं मिलि- | मृग इति शेषः ॥ २४-२५ ॥ निष्क्रान्त इति । ताः सन्तः । एकेन रामेण सह संगम्यः निःशेषाः कूरत्वान्निष्क्रान्तिकारणानुक्तिः । अतएवाह काम स० कर्णधनासाचकर्णनासं । पुनःकर्णधनासाचकर्णनासं । कर्णनासंचकर्णनासंचकर्णनासे । अतःप्राण्यङ्गताप्रयुक्तैकवद्भावाभावः कथमितिशङ्कानवकाशः ॥ १७ ॥ शि० अयंमृगः नः आश्रमः खेलनञ्जयोभविष्यति ॥ २४ [ पा० ] १ ङ. च. छ. झ. ट. मृगाकुलं. २ इदमर्घ क. ख. ङ. -ट. पाठेषुदृश्यते ख. दूषणश्चहतोमूर्चत्रिशिराः ३ क कः ख. ध. च. छ. ज• ट. साराममब्रवीदृष्टवैदेही. ङ. झ. ज, साराममब्रवीतृषावैदेही. ४ ङ. झ. ट. अयंमनोहरः ५ ङ-ट, धनुष्पाणिभुगतमनु.