पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ ~**

राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः॥ ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः९॥ धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः। अशोको मन्त्रपालश्च सुमत्रश्चापि निर्ययुः । मलैनगसहस्त्रैश्च शाहुंकुम्भविभूषितैः ॥ १०॥ अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः निर्ययुस्तुरगाक्रान्तै रथैश्च सुमहारथाः ॥ ११ ॥ शक्त्युष्टिप्रासहस्तानां सध्वजानां पताकिनाम् । तुरगाणां सहस्रैश्च मुख्यैमुख्यनरान्वितैः॥ पदातीनां सहस्त्रैश्च वीराः परिवृता ययुः ॥ १२ ॥ ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥१३॥ कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ १४॥ कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ॥ १५ ॥ अश्वानां खुरशब्देन रथनेमिस्खनेन च ॥ शब्दुन्दुभिनादेन संचचालेव मेदिनी ॥ १६ ॥ द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः॥ माल्यमोदकहस्तैश्च मत्रिभिर्भरतो वृतः ॥ १७ ॥ शब्दभेरीनिनादैश्च वन्दिभिश्चाभिवन्दितः ॥ ’पादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् । शुकं च वालव्यजने राजाहें हेमभूषिते ॥ १९ ॥ उपवासकृशो दीनचीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः॥ प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥ २० ॥ समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥ २१ ॥ कच्चिन्न खलु कापेयी सेव्यते चलचित्तता । न हि पश्यामि काकुत्स्थं राममायें परन्तपम् ॥ ३० ९

  • *

अथ परेद्युः प्रातः रामभक्त्यतिशयेन सर्वेषां निर्ग- | नगरशब्देन तत्रत्यजना लक्ष्यन्ते ॥ १५ ॥ मनं दर्शयति-राजदारा इत्यादिना । श्रेणीमुख्याः | संचचाल कम्पितेव ॥ १६ ॥ अथोक्तपरिवारैः श्रेणीमुखाः । तथा गणाः । श्रेणी श्रेणय इति यावत् । | सह भरतस्य नन्दिग्रामान्निर्गमं दर्शयति- अत्र श्लोके निर्ययुरिति वक्ष्यमाणमनुषज्यते ॥ ९ ॥ | द्विजातिमुख्यैरित्यादिभिः सार्धश्चतुर्भिः श्लोकैः ॥ अमात्यन्विशिष्य दर्शयति-धृष्टिरित्यादिना । सार्ध- | ततो महमा भरतः सर्ववृतः प्रत्युद्ययाविति श्लोक एकान्वयः । अत्र धृष्टयादयो गजारूढा ययु- वाक्यार्थः । सनैगमैः सवणिग्भिः । ॐ वैदेहकः रित्यर्थः । १० । अपरे राजान्तरङ्गाः पुरुषाः करे- सार्थवाहो नैगमो वाणिजो वणिक़ " इत्यमरः णुभिर्निर्ययुः ॥ ११ ॥ शक्तीत्यादिसार्धश्लोक एका- | मत्रिभिः वसिष्टादिभिः। सचिवैः सुमत्रादिभिः । । उक्तविशेषणानां तुरगाणां सहस्रैः पदा - आर्यपादौ रामपादुके । हेमभूषिते हेमदण्डभूषिते । तीनां सहस्रैश्च परिवृता वीरा ययुः ॥ १२ ॥ तत्पूर्वं श्रवणादिहर्षमागतः । श्रवणात्पूर्वं तु नास्य प्रमुखे अग्रे ॥१३।। कैकेय्येति । अत्र भरतेनोपेक्षया- हर्षाभूदित्यर्थः ॥ १७–२० ॥ समीक्ष्येत्यधे ॥ नाहूतत्वात् पश्चान्निर्गत्य कैकेय्या नन्दिग्रामप्राप्ति- समीक्ष्य समन्ताद्रामगमनं निरीक्ष्य ॥ २१ ॥ कच्चैि काले साहित्यमुच्यते ॥ १४ ॥ कृत्तमित्यर्थं । अत्र | दित्यादि सार्धश्लोक एकान्वयः । कच्चिदिति प्रश्ने । न्वयः मुक्कपुष्पाणि' बन्धनरहितानि पुष्पाणि ॥ ८ ॥ स० सेनाङ्गनागणाः सपतिकयोषिज्जनाः सुवासिन्यइतियावत् । सेनोपयुक्तान- पत्याङ्गनासंघाइतवा । ‘वंध्याभार्याबहुप्रदोराजा’ इत्यादेः । सेनागणाः अङ्गनागणा इतिवा ॥ ९ ॥ स० रामपादौ तच्चिह्नित वात्तवेनव्यपदेशः पादुके ॥ १८ ॥ स७ प्रत्युद्ययौ अनेनेदृशदशामापन्नस्यापिभरतस्यतस्यागमनवातैवश्रमशामिकेतिद्योत्यते ॥ २० ॥ स७ ‘यावन्नदूरयातोस्सिक्षिप्रमागन्तुमर्हसि'इत्यत्र भारतेचचनपर्वणि ‘लक्षयित्वेङ्गितंसर्वेप्रियंतस्मै निवेद्यच । वायुपुत्रेपुनः [ पा० ] १ अयंलोकः क.-ट. पाठेषु अभिनिर्यान्तुरामस्येत्यर्धपूर्वदृश्यते . २ क.--ट, सेनाङ्गनागणाः३ ङ. च. झ अ. ट, सध्वजैःसुविभूषितैः ४ क. ङ. च, छ, झ, थुख्यतरान्वितैः, ५ ठ, रामपादौ