पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४८७ रामो मातरमासाद्य विषण्णां शोककर्शिताम् ॥ जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥४७॥ ॥ अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ॥ स मातुश्च तैतः सर्वाः पुरोहितमुपागतम् ॥४८॥ स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ॥ इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ ४९ ॥ तान्यजलिसहस्राणि प्रगृहीतानि नागरैः ॥ व्याकोशानीव पद्मानि ददर्श भरताग्रजः ॥ ५० ॥ पादुके ते तु रामस्य गृहीत्वा भरतः खयम् ॥ चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् । अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥ ५१ ॥ एतत्त रक्षितं राजन्नाज्यं निर्यातितं मया ॥ अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः॥ ५२ ॥ यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ॥ अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् । भवतस्तेजसा सर्वं कृतं दशगुणं मया ।। ५३ ॥ तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् । मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ५४ ॥ ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ॥ ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ५५ ॥ भरताश्रममासाद्य ससैन्यो राघवस्तदा । अवतीर्य विमानाग्रादवतस्थे महीतले ॥ ५६ ॥ अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ॥ वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ५७ ॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥ उत्तरां दिशमागम्य जगाम धनदालयम् ॥ ५८ ॥ [ विंमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा ॥ अगमद्धनदं वेगाद्रामवाक्यप्रचोदितम् ]॥ ५९ ॥ पुरोहितात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः । निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश रीघवः ॥ ६० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥ मनो मातुः प्रसादयन्निति पूर्व त्वद्वाक्यं नाश्रौषमिति | धान्यशाळां । दशगुणत्वं रामनिर्गमनकालिककोशा- त्वया मनस्तापो न कार्यं इत्येवं प्रसन्नामकरोदित्यर्थः । पेक्षया ।। ५२-५३ ॥ सुमुचुरिति । स्वकुलीनेष्वे ॥ तादृशभ्रातृव्यदर्शनादिति । । ४७ ॥ यशस्विनीं । रावणंजयस्य तन्मूलत्वात् । भावः ।५४ भरता सर्वैः प्रशस्यमानामित्यर्थः । पुरोहितं वसिष्ठं । अभिवाद्येत्यनुषज्यते । अभिवाद्योपागमदित्यन्वयः | श्रमं नन्दिग्रामं ॥ ५५-५६ । गम्यतामित्यन ४८-५१ एतत इत्यादिसार्धश्लोकद्वयमेका- न्तरमितिकरणं बोध्यं ।। ५७ ॥ दिशमागम्य दिश न्वयं । हे राजन् मया रक्षितं न्यासत्वेन पालितं | मुद्दिश्य ॥ ५८-५९ ॥ आमसमस्य स्वानुरूपस्य । एतद्राज्यं ते निर्यातितं तुभ्यं निवेदितं । कोष्ठागारं पृथगासने तेन सहैवोपविवेश । पृथगासने युगपदे रामानु० कैकेय्यायशखिनीमिति विशेषणंदेवकार्यहेतुभूतादृषिःप्रायुङ्क। ति० यशखिनीं अस्यामनोदायैनराजानरकात्तारितः । देवाब्रह्मर्षयश्चपरमंमुखंप्राप्ताः । रामस्यचयशोजातं । अतएषायशखिन्येव । स० यशस्खिनीं भरतरूपसपुत्रप्रसवित्रीतिकीर्ति मतीं । ‘सूवातुभरतंनैषागच्छेतनिरयानिति ।’ इत्यादेः । खयशस्साधनीभूतेतियशस्खिनीतिवा ॥ ४८ ॥ ति० पुरोहितस्येति । वसिष्ठपुत्रस्यसुयज्ञस्येत्यर्थः। आत्मसमस्येति पाठान्तरं । ब्रह्मज्ञत्वादितिभावः । वसिष्ठस्येत्यर्थइतितीर्थः ॥ ६० ॥ इतित्रिंशदुत्तर- शततमःसर्गः ॥ १३० ॥ [ पा० ] १ ङ. झ. ध. ट. विवर्णा. २ क. ग. ङ. च. झ. अ. ट. प्रहर्षयन्- ३ ज. तदासर्वाःपुरोहितमुपागमत. ४ इं. च. छ. एतत्तेसकलंराज्यंन्यासंनिर्यातितं. ५ ङ. च. छ. झ. ब. ट. दिशमुद्दिश्य ६ ख. ग. ङ, च. छ. झ. अ, ट. पाठेष्वयं श्लोकोदृश्यते. ७ ङ. झ. ट. स्यात्मसखस्य. ८ क. ग. ङ. च. छ. झ. ट. वीर्यवान्,