पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३१ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४९७

  • ~*~*~*~*~*~*~*~*~*

~*~*~*~*~*~*~*~**~***~*~**~*~*~**~*~*~*~~*~**~**~*~*~*~*~*~*~*~ राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ॥ ईजे बहुविधैर्यज्ञः ससुहृज्ज्ञातिबान्धवः ॥ ९६ ॥ न पर्यदेवन्विधवा न च व्यालकृतं भयम् । न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ।९७।। निर्दस्युरभवद्योको नैनर्थः कंचिदस्पृशत् । न च स वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८ ॥ सर्वे मुदितमेवासीत्सव धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९ ॥ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०० ॥ रामो रामो राम इति प्रजानामभवन्कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१ ॥ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः॥ काँले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥१०२॥ ब्रालणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्खकर्मसु प्रवर्तन्ते तुष्टाः खैरे कर्मभिः ॥१०३॥ आसन्प्रजा धर्मरता रामे शासति नानृताः ॥ सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥ १०४ ॥ दश वर्षसहस्राणि दश वर्षशतानि च । भ्रातृभिः सहितः श्रीमात्रामो राज्यमकारयत् ॥ १०५ ॥ धैन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं वार्ष पुरा वाल्मीकिना कृतम् ॥ यैः पठेच्छुणुयायोके नरः पापाद्विमुच्यते ॥ १०६ ॥ पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥१०७॥ कृता इत्यस्योपलक्षणं । । ९३-८९५। । चापीति निपा | रामस्य बाल्मीकिर्भगवानृषिः। चकार चरितं कृस्नं वि- तसमुदायोवधारणार्थोऽभिन्नक्रमः । ससुहृज्जातिबा- चित्रपद्मामवान्”इति रामे प्राप्तराज्ये सति चकारेत्यु- धव एवेत्यर्थः ।। ९६ ॥ न पर्यदेवन्निति । नपर्यदे| पक्रमात् “रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् बयन्नित्यर्थः ॥ ९७-९८ ॥ राममेवेति । अन्यो- इति राज्यप्राप्तिपर्यन्तं भूततया निर्दिश्य ततः परं ब्रह न्यनिर्मुलनवैरे सत्यपि राममुखं म्लानं भविष्यतीति | लोकं प्रयास्यतीत्येतदन्तं भविष्यत्तयानिर्देशात् ‘कोन्व मत्वा परस्परं नाभ्याहिंसन् । परमधार्मिकं राममेवा- | स्मिन्सांप्रतं लोकेइत्यादौ सांप्रतशब्दप्रयोगात् नुचिन्तयन्तोऽन्योन्यवैरं प्रजहुरित्यर्थः॥ ९९-१०५[‘रामभूतं जगदभूद्रामे राज्यं प्रशासति'इति सकललो अथ रामायणपठने फलं दर्शयति-धन्यमित्यादिसार्ध- | कविदितरामविषयप्रश्नानुपपत्तेः सर्वथा परिहृतत्वात्। श्लोकमेकं वाक्यं। नरषिः वेदः तत्संबन्धि । वेदोपचुंह- | ‘इतिहासं पुरातनम्’इत्यस्य आदिकाव्यत्वात्सङ्गतेरन्ये णमिति यावत् । पुरा अवतारात्पूर्वे । रामोत्तरताप- | षामपि विरोधाभासानां सुपरिहार्यत्वाच्चायमेवार्थः नीयमूलत्वेन पुरातनमितिवार्थः । यद्वा पुरा सर्वक- ||१०६। पुत्रकामस्त्वित्यादिसार्धश्लोकद्वयमेकं वाक्यं। । विभ्यः पूर्वं । न त्ववतारात्पूवमित्यर्थः । ‘प्राप्तराज्यस्य 'रामाभिषेचनं रामाभिषेकावधिकं । अधितिष्ठति। स० धर्ममापि साक्षाद्यज्ञपुरुषनारायणात्मापि । यदथैकत्वादिकरणं तदात्मासन्नपीतियावत् । लोकशिक्षायाइतिभावः । राघवः बहुविधैर्यजैरीजे “स्वात्मानंयज्ञपुरुषंयझेनायजताथसः ।” इत्यादेः ॥ ९६ ॥ स० दशवर्षशतानिचेयनेनैकादशसहस्रसंख्यालभ्यतें अस्याएवमानभेदात् ‘एवंत्रयोदशसहस्र –’ इत्याद्युक्तिरितिनविरोधः ॥ १०५ ॥ ति० रामाभिषेचनं तदवधिक मित्यर्थः [ पा० ] १ ङ. झ. ट. ससुतभ्रातृबान्धवः, क, ख. घ. च. ज. ज. ससुहृव्रातृबान्धवः २ क ङ ३ उ--ट. नानर्थकश्चित्. ४ ङ. झ. ट. कामवर्षीच ५ इ, छ. झ. अ ट. धम्र्यं. ६ क. ख. च.--ट. यशणोतिसदालो केनरःपापात्प्रमुच्यते. वा. रा. २४०