पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ ततस्तु प्रघसा नाम राक्षसी वाक्यमंत्रवीत् || कैण्ठमस्या नृशंसाया: पीडयाम किमास्यते ॥ ४२ ॥ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ॥ नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥ ४३ ॥ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् || विशस्येमां ततः सर्वाः समान्कुरुत पीडकान् ॥४४॥ विभजाम ततः सर्वा विवादो मे न रोचते ॥ पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ॥ ४५ ॥ ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् || अजामुख्या यदुक्तं हि तदेव मम रोचते ॥ ४६ ॥ सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ॥ मानुषं मांसमा खाद्य नृत्यामोथ निकुम्भिलाम् ॥ ४७ ॥ एवं समाना सा सीता सुरसुतोपमा || राक्षसीभिः सुघोराभिधैर्यमुत्सृज्य रोदिति ॥ ४८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ राक्षसीगणसंतर्जनम सहमानयासीतयाऽशोकशाखालंबनेन रामलक्ष्मणादीन्प्रत्याक्रोशन पूर्वक मश्रुधाराविसर्जनेन बहु भापरिदेवनम् ॥ १ ॥ तथ तासां वदन्तीनां परुषं दारुणं बहु || राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ १ ॥ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ॥ उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ २ ॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति ॥ कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ३ ॥ सा राक्षसीमध्यगता सीता सुरसुतोपमा || न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ ४ ॥ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ॥ वने यूथपरिभ्रष्टा मृगी 'कोकैरिवादिता ॥ ५ ॥ सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ॥ चिन्तयामास 'शोकेन भर्तारं मानसा ||६|| नकारान्तस्य लीहन्शब्दस्य अकारान्तत्वमार्ष || भद्रकाली ॥४७॥ रोदिति अरुदत् ||४८|| इति श्रीगो- " अ पुरीतद्गुल्मस्तु फ़ीहा पुंसि " इत्यमरः । विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा शितल उत्पीडं तस्योपरि स्थितं मांसं । हृदयं पद्मकोशप्रती- काख्याने सुन्दरकाण्डव्याख्यानेचतुर्विंशः सः ॥२४॥ काशं मांसं । बन्धनं तस्य धारणमधोमांसं । उत्क्रोड- मिति पाठे उत्क्रोडोहृदयस्य स्थानं । अञं पुरीतत् तासां वदन्तीनां तासु वदन्तीषु ॥ १ ॥ मनस्विनी ॥ ४१-४३ ॥ पीलुकान् मांसखण्डान् ॥ ४४ ॥ | पातिव्रत्ये दृढमनाः ॥ २ ॥ खादत भक्षयत ॥ ३ ॥ पेयं लेह्यं चास्या उपदंशवेनोच्यते || ४५-४६ ॥ | शर्म सुखं ॥ ४ ॥ कोकैः ईहामृगैः । " कोकीहा- निकुम्भिला नाम लङ्काया: पश्चिमद्वारप्रदेशवासिनी मृगो वृक: " इत्यमरः ॥ ५ ॥ अशोकस्य हनुमद- नियंदैन्य॑यस्यास्सा नित्यदैन्या तस्याभावोनित्यदैन्यतातां ॥ २४ ॥ ति० प्रघसावाक्यं विशस्येमामिति । मध्ये- इत्यादिततस्त्वजामुखीत्यन्तंश्लोकद्वयं प्रक्षिप्तमितिकतकः ॥ ४४ ॥ ति० शूर्पणखेयमन्या ॥ ४६ ॥ इतिचतुर्विंशः सर्गः दा स० परुषं बहिःक्रूरं | दारुणं अन्तः ॥ १ ॥ ति० शर्मन लेभेइव | शोकार्तेव ॥ ती० सीताविलापस्यवास्तवार्थस्तु वियोगेन घोरराक्षसपुरावस्थानेन विरूपराक्षसीसमागमेनच विविधप्रलापादिकमितिज्ञेयं । अस्मिन्काण्डेयत्रयत्रसीताप्रला अस्तत्रतत्रै- वमेबोहनीयः ॥ ४ ॥ स० आत्मनः स्वस्य अङ्गं विशन्तीमहाङ्गेध्ववान्तराङ्गानि निवेशयन्तीव ॥ ति० आत्मनो विशन्तीव भीत्यातिसंकुचितशरीराकमठवदभूदित्यर्थः ॥ ५ ॥ शि० अशोकस्य अशोकसदृशशिंशुपायाः । अशोकशब्दभाचारक्किदेबन्तप्रकृ [ पा० ] १ एतदायर्धचतुष्टयं झ. पाठेनदृश्यते २ ङ. च. झ. न. ट. सर्वान्समान्. ३ ङ. झ ञ ट. पिण्डका ४ङ, झ. न. ट. माल्यंचविविधंबहु. क. माल्यानिविविधानिच. ५ ङ. ट. यदुक्तंवै. ६ ङ. च. ज. ~ट. मासाय. आङ. च. ज. ट. निर्भर्त्स्यमाना. ८ राक्षसीभिर्विरूपाभिः ९ क. ङ. झ. ट. अथ. १० ख. ङ. - ट. शोकार्ता. ११ झ. राणेनेव. १२ क. सिंहैरिवा. १३ क. दुःखार्ताभर्तारं. १४ क. गतमानसा. घ. ज. सक्तमानसा. कण्ठमस्याः ॥ २४ ॥ श्रीराम-