पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १ ]
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

[]हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ॥ []उत्पपात जलात्तूर्णं महाद्रुम[]लतायुतः ॥ १०५ ॥
[]स सागरजलं भित्त्वा []बभूवाभ्युत्थितस्तदा ॥ यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०६ ॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ॥ दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०७ ॥
[]शातकुम्भनिभैश्शृङ्गैः सकिन्नरमहोरगैः ॥ आदित्योदय[]संकाशैरालिखद्भिरिवाम्बरम् ॥ १०८ ॥
[]तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य []समुत्थितैः ॥ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ १०९ ॥
जातरूपमयैश्शृङ्गैर्भ्राजमानैः [१०]स्वयंप्रभैः ॥ आदित्यशतसंकाशस्सोभवद्भिरिसत्तमः ॥ ११० ॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ॥ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १११ ॥
[११]तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ॥ उरसा पातयामास जीमूतमिव मारुतः ॥ ११२ ॥
[१२]तदा पातितस्तेन कपिना पर्वतोत्तमः ॥ [१३]बुद्ध्वा तस्य [१४]कपेर्वेगं जहर्ष च [१५]ननन्द च ॥ ११३ ॥
तमाकाशगतं वीरमाकाशे [१६]समुपस्थितः ॥ [१७]प्रीतो हृष्टमना [१८]वाक्यमब्रवीत्पर्वतः कपिम् ॥
मानुषं धारयन्रूपमात्मनश्शिखरे स्थितः ॥ ११४ ॥
[१९]दुष्करं कृतवान्कर्म त्वमिदं[२०]वानरोत्तम ॥ निपत्य मम शृङ्गेषु [२१]विश्रमस्व यथासुखम् ॥ ११५ ॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ स त्वां [२२]रामहिते [२३]युक्तं प्रत्यर्चयति सागरः ॥ ११६ ॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ॥ सोयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ ११७ ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ तिष्ठ त्वं [२४]कपिशार्दूल [२५]मयि विश्रम्य गम्यताम् ॥ ११८ ॥


निशंम्य वचनमितिशेषः ॥ १०५-१०७ ॥ शातकुम्भनिभैः स्वर्णसदृशैः । आदित्योदयसंकाशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षित: श्रृङ्गाणि दर्शयामासेति योजना ॥ १०८ ॥ शस्रसंकाशं नीलमित्यर्थ । "शस्त्रमायुधलोहयोः" इतिविश्वः ॥ १०९-११० ॥ निश्चितः निश्चितवान् । कर्तरिनिष्ठा

॥ १११-११२ ॥ जहर्ष विसिष्मिये ॥ ११३ ॥ प्रीतः प्रीतिद्योतकव्यापारः ॥ ११४- ११६ ॥ कृते उपकारे । त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी त्वत्तः संमाननमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमाननमित्यर्थः ॥ ११७ ॥ चोदनाप्रकारमाह योजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वे-


मद्वृद्धिहेतुत्वात् । तवपरंपूज्यतमाः सगरविवृद्धमदन्तःप्रवेशसुखावस्थानादिफलभोक्त्रृत्वादितिभावः ॥ १०० ॥ रामानु० जीमूतइवमारुतइत्यनेनअनायासेनपर्वतंपातितवानितिद्योत्यते ॥ ११२ । रामानु० जहर्षचननन्दचेतिपदद्वयेनकायमनसोर्विकृतिरुच्यते । अस्यवेगेनग्लानिराहित्यंबुद्ध्वाहृष्टमनाबभूवेत्यर्थः । ति० सादितः अवसादितः अधःकृतइतियावत् । जहर्षचननादचेतिप्राचीन:पाठः । बलवैभवंदृष्ट्वाजहर्ष । स्वोत्थानप्रयोजनावेदनाय ननाद शब्दंकृतवान् । ननन्देतित्वाधुनिककल्पितःपाठः ॥ ११३ ॥ रामानु० प्रीतःसुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११४ ॥ रामानु० विश्रमस्वेति । श्रमिरात्मनेपदीकश्चिदस्ति । तथाचोक्तंभट्टमल्लेन--- "विश्राम्यतीतिविश्रान्तौक्वचिद्विश्रमतेपिच" इति ॥ ११५ ॥ रामानु० त्वन्निमित्तमित्यादिश्लोकद्वयमेकंवाक्यं । एषकपि:योजनानांशतंचापिसमाप्लुतःसमापतितुमुपक्रान्तः । तवसानुषुविश्रान्तःशेषं मार्गशेषंप्रक्रमतामितित्वन्निमित्तंअहमनेनसागरेणबहुमानात्प्रचोदितः । अतःकपिशार्दूल त्वंतिष्ठ । मयिविश्रम्यगम्यतामित्यन्वयः ।

 वा. रा. १५०

  1. ङ. झ. ट. हिरण्यगर्भों. क. हिरण्यनाभस्तद्वाक्यंनिशम्य.
  2. क. उत्पपाताथवेगेनजलाद्द्रुम.
  3. ङ. झ. ट. लतावृतः.
  4. ग. च. छ. ज. ञ. सागरस्यजलं.
  5. ङ. झ. ट. बभूवात्युच्छ्रितस्तदा. क. बभूवावस्थितस्तदा.
  6. ख. घ.---ट. शातकुंभमयैः.
  7. ङ. झ. ञ. ट. संकाशैरुल्लिखद्भिः.
  8. क---ट. तस्यजांबूनदैः.
  9. क. च. समुच्छ्रितैः.
  10. ङ. झ. ञ. ट. महाप्रभैः. ख. स्वलंकृतै.
  11. झ. तमुत्थितं.
  12. घ. च. छ. तथासादितस्तेन. ङ. झ. ञ. ट. तदासादितस्तेन. क. ख. ग. तथापातितः.
  13. ज. बुद्ध्वास्यसुमहावेगं.
  14. च. छ. महावेगं. ङ. झ. ञ. ट. हरेर्वेगं.
  15. क. ग. ङ. झ. ज. ट. ननादच.
  16. च. छ. ज. समवस्थितं. ख. ग. घ. समवस्थितः. क. समुपस्थितं.
  17. ग. प्रीतिहृष्टमनाः.
  18. च. छ. ज. वाक्यं पर्वतःकपिमब्रवीत्.
  19. ट. दुष्कृतं.
  20. क. वानरर्षभ.
  21. ङ. झ. ट. सुखंविश्रम्यगम्यतां.
  22. ग. रामहितार्थाय.
  23. घ. युक्तमभ्यर्चयति.
  24. क.---ज. ञ. हरिशार्दूल.
  25. क. विश्रम्यमयि.