पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ तौ परिज्ञाततत्त्वार्थों मया प्रीतिसमन्वितौ ॥ पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१ ॥ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोरन्योन्याशं प्रीतिरजायत ॥ ३२ ॥ ततैस्तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ || परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३३ ॥ ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः || स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ ३४ ॥ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ॥ लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३५ ॥ र्सं श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ॥ तदासीनिष्प्रभोत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ३६ ।। ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया || यान्याभरणजालानि पातितानि महीतले ॥ ३७ ॥ तानि सर्वाणि रामाय आनीय हरियूथपाः ॥ संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८ ॥ तानि रामाय दत्तानि मयैवोपहृतानि च ॥ स्वनवन्त्यवकीर्णानि तसिन्विगतचेतसि ॥ ३९ ॥ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव || तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ४० ॥ पश्यतस्तानि रुदतस्ताम्यतच पुनः पुनः ॥ प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ ४१ ॥ शयितं च चिरं तेन दुःखार्तेन महात्मना ॥ मयाऽपि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥४२॥ तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः || राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ॥ ४३ ॥ स तवादर्शनादायें राघवः परितप्यते || महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४४ ॥ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ॥ तापयन्ति महात्मानमम्यगारमिवाग्नयः ॥ ४५ ॥ तवादर्शनशोकेन राघवः प्रविचाल्यते || महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६ ॥ काननानि सुरम्याणि नदीः प्रस्रवणानि च ॥ चरन्न रतिमानोति त्वामपश्यन्नृपात्मजे ॥ ४७ ॥ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ॥ समित्रवान्धवं हत्वा रावणं जनकात्मजे ॥ ४८ ॥ सहितौ रामसुग्रीवावुभावकुरुतां तदा ॥ समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ ४९ ॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ॥ किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥५०॥ ततो निहत्य तरसा रामो वालिनमाहवे || सर्वहरिसङ्घानां सुग्रीकरोत्पतिम् ॥ ५१ ॥ रामसुग्रीवयोरैक्यं देव्येवं समजायत || हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५२ ॥ नान्तत्वमार्ष ॥ २७ – ३५ ॥ अत्यर्थे निष्प्रभ इति | काल इतिशेषः । इदानीं हरियूथपैरानीतत्वोक्तेः । "आत्मवद्रामस्यापि दुःखहेतुश्रवणादिति भावः । यद्वा स्वनवन्ति आकाशात्पतनकाले ॥ ३९–४१ ॥ रामापेक्षया अत्यन्तनिष्प्रभः । रामः सीताविरहेण शयितं मूच्छितं ॥ ४२ ॥ सुप्रीवे संन्यवेदयत् सुग्री- निष्प्रभोभूत् सुग्रीवस्तु तयोस्साहित्यादर्शनाद्रामक्ले- वहस्ते न्यस्तवानित्यर्थः ॥ ४३ ॥ अग्निपर्वतो नाम शदर्शनाचात्यर्थं निष्प्रभोभूत् ॥ ३६-३७ ॥ आ- मेरुशिखरवर्ती कश्चिगिरिः। उक्तंच भारते । “ अत्र नीय हरियूथपा इति पूर्व सुग्रीवेणानयनमुक्तं तद्धरि- माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा । नाम्ना यूथपद्वारेत्यत्रोच्यते । गतिं रावणस्थानं ॥ ३८ ॥ संवर्तको नाम कालाग्निर्भरतर्षभ " इति ।।४४ -५१॥ दत्तानि सुग्रीवेणेति शेषः । मयैवोपहृतानि पूर्व पतन- ननु वानराणां नराणां च कथमासीत्समागम इति स० लन्नाशजं त्वदनुपलंभजं । “ नाशो निधनानुपलंभयोः " इतिविश्वः ॥ ३५ ॥ स० ताभ्यां रामलक्ष्मणाभ्यां | छत्रिन्यायेनेयमुक्तिः ॥ हरीश्वरः वाली ॥ ५० ॥ स० ऐक्यं मयैक्यं ॥ ५२ ॥ ३ क. ग. – ट. कीर्तिसंपन्नौ. ४ ङ. ज. झ. [ पा० ] १ क. ग. —ट. संभाषात्. २ ख. घ. ङ. झ. ट. तत्रतौ निरस्तंपुरु. ५क. ग. घ. त्वन्नाशजनितं. ६ क. ग. ज. तच्छ्रुत्वा. ७ क. –घ. च. – ट. महार्हाणिदर्शयित्वा. ८ क. ग. - झ. संन्यवेशयत. ९ क. घ. ङ. झ ञ ट परिचाल्यते. ज. प्रतिचाल्यते १० ख. हत्वा ११ ङ च छ. झ ञ. द. प्रति १२ क. - घ च छ ज ल युधि १३ ङ. ट. मुपागतं.