पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १ ]
११
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ॥ जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव ॥ १३६ ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ॥ पूजित[]श्चोपपन्नाभिराशीर्भि[]रनिलात्मजः ॥ १३७ ॥
[]अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ॥ पितुः पन्थानमा[]स्थाय जगाम विमलेऽम्बरे ॥ १३८ ॥
[]भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ॥ []वाायुसूनुर्निरालम्बे जगाम []विमिलेऽम्बरे ॥ १३९ ॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १४० ॥
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य []कर्मणा ॥ काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १४१ ॥
उवाच वचनं धीमान्परितोषात्सगद्गदम् ॥ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १४२ ॥
हिरण्यनाभ शैलेन्द्र परितुष्टोस्मि ते भृशम् ॥ अभयं ते []प्रयच्छामि [१०]तिष्ठ सौम्य यथासुखम् ॥ १४३ ॥
साह्यं कृतं ते सुमह[११]द्विक्रान्तस्य हनूमतः ॥ क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४४ ॥
[१२]रामस्यैष [१३]हि दूत्येन याति [१४]दाशरथेर्हरिः ॥ सत्क्रियां कुर्वता [१५]तस्य तोषितोस्मि दृढं त्वया ॥ १४५ ॥
[१६]ततः प्रहर्ष[१७]मगमद्विपुलं [१८]पर्वतोत्तमः ॥ देवतानां पतिं दृष्टा परितुष्टं शतक्रतुम् ॥ १४६ ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ॥ हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ [तं [१९]प्रयान्तं समुद्वीक्ष्य ह्याकाशे मारुतात्मजम् ॥]
[२०]अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् ॥ १४८ ॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ॥ हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १४९ ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ॥ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा [२१]नभस्समम् ॥ १५० ॥


अन्तरे मध्ये । मया नस्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥ १३५ ॥ प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ १३६-१३७ ॥ हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रोपि मूर्ति-

मत्तया तत्रादृश्यतेति सूचितं ॥ १३८-१३९ ॥ द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपंकर्म ॥ १४० - १४३ ॥ भये सति समुद्रलङ्घनेस्य किं भवि-


ग्यःकालःकार्यकालः । त्वरतेत्वरयति । अहश्चाप्यतिवर्ततेलङ्काद्वीपप्रवेशयोग्यमहश्चातिवर्तते । प्रतिज्ञाचेति–--'यथाराघवनिर्मुक्तः शरःश्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामिलङ्कांरावणपालिताम्' इतिप्रतिज्ञादत्ता । तस्मादिहान्तरेनस्थातव्यं ॥ १३५ ॥ ति०

प्रहसन्निवेति । एतावत्प्लवनेपिश्रममारोप्यवृथायंप्रयासएतयोरितिप्रहासः ॥ रामानु० आलभ्यस्पृष्ट्वा । प्रहसन्निवेत्यत्रेवशब्दोहासप्रकर्षस्यपारमार्थ्यपरःप्रीतिसूचकः । मन्दस्मितंकुर्वन्नित्यर्थ ॥ १३६ ॥ ति० भूयऊर्ध्वंततोपिबहूर्ध्वंतंगिरिंअधःप्रदेशवर्तिनमवलोकयन् ॥ १३९ ॥ रामानु० साह्यंसहायकर्मसहकारित्वमितियावत् । तेत्वयानिर्भयस्यभयेसतिअतिविस्तृतसमुद्रोपर्याकाशगमनेसमुद्रपतनादिभयनिमित्तसंभावनायामपिनिर्भयस्य ॥ १४४ ॥ रामानु० बभूवावस्थितस्तदा तस्मिन्कालेस्वस्थोभूदित्यर्थः । प्रतिप्रयाणवेलायापि 'पर्वतेन्द्रंसुनाभंचसमुपस्पृश्यवीर्यवान्' इतिमैनाकावस्थानाभिधानात् । सागरं मैनाकाधिष्ठितसागरप्रदेशं ॥ १४७ ॥ रामानु० श्रीमान्अत्रश्रीशब्देनातिदूरसमुद्रलङ्घनेप्युपर्युपरिबलाभिवृद्धिप्रयुक्तासुषमोच्यते ॥ १४९ ॥ स० रक्षसामयंराक्षसस्तं । करालंक्रूरं । पिङ्गलवर्णयुक्तेअक्षिणीयस्यतं । वक्रं मुखं । अर्धर्चादिनिविष्टइतिवक्त्रशब्दःपुँल्लिङ्गः । अतोनभस्स्पृशमित्युपपन्नं । अतएवार्धर्चादिगणोक्तप्रपञ्चनपरे 'वक्त्रनेत्रारण्यगाण्डीवानिनपुंसकेच' इतिलिङ्गानुशासने चशब्देनपुँल्लिङ्गत्वमप्यनुशिष्टं ।

  1. ख. श्चोपहाराभिः.
  2. घ. ङ. झ. ञ. ट. रभिनन्दितः.
  3. च. छ. ज. अतऊर्ध्वेसमुत्पत्य. ग. ङ. झ. ञ. ट. अथोर्ध्वेदूरमाप्लुत्य. क. ख. अथोर्ध्वेदूरमुत्प्लुत्य.
  4. ख. ङ.---ट. मासाद्य.
  5. ख. ग. घ. ततश्चोर्ध्वगति. झ. ततश्चोर्ध्वेगतिं.
  6. ङ.---ट. वायुसूनुर्निरालंबो. ख. वायुपुत्रोनिरालंबो.
  7. घ. ङ. झ. ट. कपिकुञ्जरः.
  8. च. ज. कर्मणि.
  9. घ. प्रदास्यामि.
  10. झ. ञ. ट. गच्छसौम्य.
  11. ग. ङ. झ. द्विश्रान्तस्य.
  12. क. च. छ. ज. रामस्यैव.
  13. ङ. झ. ञ. ट. हितायैव.
  14. ङ. झ. ज, ट. दाशरथेःकपिः.
  15. क. ग.---ट. शक्तया.
  16. ङ. झ. ट. सतत्प्रहर्षे.
  17. क. ख. छ.---ट. मलभत्.
  18. ञ. पर्वतोभृशं.
  19. इदमर्धे च. छ. ज. पाठेषुदृश्यते.
  20. घ. अब्रुवन्देवसंकाशां.
  21. ग.---झ. ट. नभस्स्पृशं. ञ. दिवस्पृशं.