पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् ॥ परात्मसंमर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७ ॥ कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ॥ तथैव खल्वात्मबलं च सारवत्समानयेन्मां च रणे दशाननः ॥ ८ ॥ ततः समासाद्य रणे दशाननं समन्त्रिवर्ग संबलप्रयायिनम् ॥ हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्ब्रजे ॥ ९ ॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् || वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ १० ॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ॥ अस्मिन्भने ततः कोपं करिष्यति दशाननः ॥ ११ ॥ ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः || त्रिशूलकालायसपहसायुधं ततो महयुद्धमिदं भविष्यति ॥ १२ ॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभि॑िरसह्यविक्रमः ।। निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३ ॥ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः || ऊरुवेगेन महता द्रुमान्क्षेष्ठुमथारभत् ॥ १४ ॥ ततस्तु हनुमान्वीरो बभञ्ज प्रमदावनम् ॥ मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ १५३ हेतुस्साघकोन किमुत महतः कर्मण इति भावः । | खलु | स दशाननः । रणे आत्मबलं स्वपक्षबलं मां बहुधा बहुभिर्हेतुभिः ॥ ६ ॥ पूर्वोक्तसमर्थनायाह- इहैवेति || अहमिव परात्मसंमर्द विशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्ववित् | कृतनिश्चयः कृत- बलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं व्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्परिज्ञान- विषयं शासनं । तावत्साकल्येन कृतं स्यात् । अन्य- था राक्षसबलाबलं कीदृशमितिभर्त्रापृष्टे निरुत्तरः स्यामिति भावः ॥ ७ ॥ युद्धं कथं सुखागतं सुखेन प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह - तथैवेत्यादिना सार्धश्लोकेन ॥ तथैव खलु युद्धकरणे च । सारवत् मानयेत्परिच्छिन्द्यात् ॥ ८॥ बलप्रया- यिना सेनान्या सह वर्तत इति सबलप्रयायी तं । तस्य हृदिस्थितं मतं सीताविषयाध्यवसायं बलं च मत्वा । सुखेन इतः अस्मात्स्थानात् । पुनः व्रजे व्रजिष्यामि ॥ ९ ॥ नेत्रमनःकान्तं वर्तत इति शेषः ॥ १०- १२ ॥ समादेक्ष्यति नियोजयिष्यति । इदं अव्यवहि- तोत्तरकालिकं ॥ १२ ॥ कपीश्वरालयमित्यनन्तरमि- तिकरणं द्रष्टव्यं । इति चिन्तयामासेत्यन्वयः ||१३|| ततः तेन चिन्तितेन हेतुना ॥ १४ ॥ प्रमदावनं अन्तःपुरवनं । “प्रमदावनमन्तःपुरोचितं " इत्यमरः सावकोहेतुर्नभवति । अपितु योह्यर्थं प्रयोजनं । अल्पेनयत्नेन बहुधाकर्तुवेद स एवार्थसाधने समर्थः ॥ ६ ॥ ति० एवंनिश्चितार्थो युद्धप्रवृत्तिप्रकारंचिन्तयति - कथंन्विति । अद्यखलु ममेहागतं आगमनं । सुखागतं सुखफलक मागमनंकथंभवेत् । तथा राक्षसैः सहप्रसह्य स्वयमेवबलात्कृत्ययुद्धंच कथंममभवेत् । तथा तथैवकरणेसति । सारवत् ऊर्जितं स्वबलंमांच सदशाननः कथंमानयेत् लाघयेत् । यद्वा तथैवयुद्धकरणेखलु दशाननः आत्मबलंमांचसारवत्संमानयेत् सम्यक्परिच्छिन्द्यादित्यर्थेनयुद्धफलमुक्तं ॥ ८ ॥ ति० ततोमद्वलवशादेवमारणेसमासाद्यवर्तमानं सबलं सयायिनं ससारथिं । अन्तर्भावितण्यर्थाद्यातेर्णिनौ यापयितायायी सारथिः । तेनसहितंरावणंज्ञात्वा हृदिस्थित्तस्य मतं अभीष्टंबलंच । सुखेन अक्लेशतोमत्वा ज्ञात्वा । पुनरितोत्रजे ब्रजिष्ये । सबल- प्रयायिनमित्याधुनिक कल्पितःपाठः ॥ ९ ॥ शि० इदंवनं अस्य रावणस्य | मनःकान्तं मनःप्रियं । अस्तीतिशेषः ॥ १० ॥ शि० इदंवनं शुष्कंवनमनलइव विध्वंसयिष्यामि । यदितु एतच्छ्रोकघटकस्य इदमित्यस्य स्वप्रवेशिनोजनस्योद्दीपनद्वारा इंकामंददा- तीतितथा इत्यर्थः तदापूर्वस्यापी हैवान्वयः । एवंच पूर्वत्रास्तेरध्याहारस्य न प्रयोजनं ॥ ११ ॥ [ पा० ] १ ग घ. सुखावहं. २ ङ. च. झ. ट. सबलंसयायिनं. घ. सबलंसबान्धवं. ३ क. ङ. - . समानेष्यति • ४ ङ. झ ञ ट रभङ्गविक्रमः . घ. रसह्यविक्रमैः ५ ग. ङ. झ. ट. ततस्तद्धनुमान्. वा. रा. १६८