पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 k सर्गः ४५ ] हेमजालपरिक्षिप्तैर्ध्वजबद्भिः पताकिभिः ॥ तोयदखननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ ३ ॥ तप्तकाञ्चनचित्राणि चौपान्यमितविक्रमाः ॥ विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥ ४ ॥ जैनन्यस्तु ततस्तेषां विदित्वा किंकरान्हतान् || बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५ ॥ ते परस्पर संघर्षात्तप्तकाञ्चनभूषणाः | अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ६ ॥ सृजन्तो बाणवृष्टिं ते रथगर्जित निःस्वनाः ॥ वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥ ७ ॥ अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः ॥ अभवत्संवृताकारः शैलराडिव वृष्टिभिः ॥ ८ ॥ स शरान्मोघयामास तेषामाशुचरः कपिः ॥ रैथवेगं च वीराणां विचरन्विमलेऽम्बरे ॥ ९ ॥ स तैः क्रीडन्धनुष्मद्भिर्व्यानि वीर: प्रकाशते || धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ १० ॥ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् || चकार हनुमान्वेगं तेषु रक्षस्सु वीर्यवान् ॥ ११ ॥ तँलेनाभ्यहनत्कांचित्पाँदै परन्तः ॥ष्टनाभ्यहनतकांञ्चिन्नखैः कांश्रिव्यदारयत् ॥ १२ ॥ प्रममाथोरसा कांचिदूरुभ्यामंपरान्कपिः ॥ केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ १३ ॥ ततस्तेष्ववसनेषु भूमौ निपतितेषु च || तत्सैन्यमगमत्सर्वं दिशो दश भयार्दितम् ॥ १४ ॥ विनेदुर्विखरं नागा निपेतुर्भुवि वाजिनः ॥ भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ १५ ॥ स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि ॥ विविधैश्च स्खरैलङ्का ननाद विकृतं तदा ॥ १६ ॥ स तान्प्रवृद्धान्विनिहत्य राक्षसान्महाबलञ्चण्डपराक्रमः कपिः ॥ युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोभिजगाम तोरणम् ॥ १७ ॥ या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तास्त्राः ॥ आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च | हाराय न भवन्ति तथा समचरदित्यर्थः ॥ ९–१०॥ श्रेष्ठा इति वा । ज्ञानशिक्षे उभे अप्येषां स्त इति वेगं संहारोद्योगं ॥ ११ ॥ पादैः कश्चिदति बहुव- भावः । परस्परजयैषिणः प्रत्येकं हनुमज्जयैषिण चनं वानराणां द्विपात्सु चतुष्पात्सु च ग्रहणात् इत्यर्थः ॥ २ ॥ हेमजालपरिक्षितैः सुवर्णजालविनि- र्मितैः । स्वासाधारणचिह्नयुक्तं ध्वजं । केवलचित्रव- स्त्रालंकृता पताका । तोयदखननिर्घोषैः तोयदस्वनतु- ल्यनिर्घोषवद्भिः ॥३–८॥ स शरान् मोघयामास । यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः । यथा रथवेगास्स्वप्र ॥ १२–१४ ॥ नीडं ध्वजावयवविशेषः ॥ १५ ॥ स्रवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्वा- नवती बभूव ॥ १६ – १७ ॥ इति श्रीगोविन्दराज- विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने. सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ स० एकजिह्वाः ध्वजाः । द्विजिह्वाः पताकाः ॥ ३ ॥ शि० सिंहावलोकनन्यायेननिहत किङ्करगृहवृत्तान्तमाह - जनन्यइति ॥ ५ ॥ ति० तोरणस्थमवस्थितं तत्रस्थितं निश्चलमित्यर्थः ॥ ६ ॥ स० राक्षसानांशरवर्षेणकार्ष्णेनचमेघसमता । पूर्वमखण्डतः शरसारगमनादेकवचनंवृष्टिमिति प्रत्येकंपृथक्पृथगञ्चनाद्वृष्टिभिरितिबहुवचनंचसंभवतः ॥ ७ ॥ ति० संवृताकारः अदृश्यइति यावत् ॥ ८ ॥ ति० नीडं रथस्थंरथ्यधिष्ठानस्थानं ॥ १५ ॥ इतिपञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ [ पा० ] १ ग. धनुष्यमित २ ख. घ. - ट. जनन्यस्तास्ततस्तेषां ३ ङ. ज. झ. ट. परस्परसंघर्षास्तप्त. झ. ट. प्रावृद्रकालइवांभोदाः ५ क. – ट. रथवेगांच. ६ ङ. झ ट तलेनाभिहनतू. ७ ग. घ. पद्भ्यांकांश्चित् ८ ग. इ. छ. - ट. मुष्टिभिश्चाहनतू. ९ ङ. झ. ट. मपरानपि १० क. ग. विखरा ११ क ख ङ. – ट. स्तदेव. वा. रा. १६९