[१]प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ॥ वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥
व्यादाय [२]वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥ १६३ ॥
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ अब्रवीत्कुरु वै वक्त्रं येन मां [३]विषहिष्यसे ॥ १६४ ॥
इत्युक्त्वा सुरसां कुद्धो [४]दशयोजनमायतः ॥ दशयोजनविस्तारो [५]बभूव हनुमांस्तदा ॥ १६५ ॥
[६]तं दृष्ट्वा [७]मेघसंकाशं दशयोजनमायतम् ॥ चकार [८]सुरसा चास्यं विंशद्योजनमायतम् ॥ १६६ ॥
[९]तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥ [१०]हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ १६७ ॥
चकार [११]सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥ १६८ ॥
चकार सुरसा वक्त्रं षष्टियोजन[१२]मायतम् ॥ [१३]तथैव हनुमान्वीरः सप्ततीयोजनोच्छ्रितः ॥ १६९ ॥
चकार सुरसा [१४]वक्त्रमशीतीयो[१५]जनायतम् ॥ हनुमा[१६]नचलप्रख्यो नवतीयोजनोच्छ्रितः ॥ १७० ॥
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १७१ ॥
तद्दृष्ट्वा व्यादितं [१७]त्वास्यं [१८]वायुपुत्रः सुबुद्धिमान् ॥ दीर्घजिह्वं सुरसया [१९]सुघोरं नरकोपमम् ॥
[२०]सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १७२ ॥
[२१]सोभिपत्याशु तद्वक्त्रं निष्पत्य च [२२]महाजवः ॥ अन्तरिक्षे स्थितः श्रीमा[२३]निदं वचनमब्रवीत् ॥ १७३ ॥
प्रविष्टोस्मि हि ते वक्त्रं दाक्षायणि नमोस्तु ते ॥ गमिष्ये यत्र वैदेही [२४]सत्यश्चासीद्वरस्तव ॥ १७४ ॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ॥ अब्रवीत्सुरसा देवी स्वेन रूपेण [२५]वानरम् ॥ १७५ ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ [२६]समानयस्व वैदेहीं राघवेण महात्मना ॥ १७६ ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १७७ ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ॥ जगामाकाशमाविश्य वेगेन [२७]गरुडोपमः ॥ १७८ ॥
सेविते वारिधाराभिः पतगैश्च निषेविते ॥ चरिते कैशिकाचार्येरैरावतनिषेविते ॥ १७९ ॥
क्षिप्याात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ १६१-१७३ ॥ |
दक्षस्यापत्यं दाक्षायणी । तत्त्वं च पूर्वं वरप्रदा- |
ति० विंशद्योजनमायतमित्यनन्तरं 'तद्दृष्ट्वाव्यादितंत्वाास्यं' इतिप्राचीनःपाठः । 'तांदृष्ट्वा' इत्यादयः 'शतयोजनमायतं' इत्यन्ताःश्लोकास्तुप्रक्षिप्ताइतिकतकः ॥ १६६ ॥ रामानु० व्यादितं व्यात्तं । इडागमस्त्वार्षः । अतिविस्तृतंवक्त्रंसूक्ष्मरूपेणप्रविश्याक्लेशेन । निर्गन्तुमयंसमीचीनःसमयइति ज्ञानयोगात्सुबुद्धिमानिति विशेषणं ॥ १७२ ॥ रामानु० दाक्षायणीत्यनुवादात्स्ववरप्रदानकथनसमये हनुमन्तमुद्दिश्यस्वकीयंदाक्षायणीत्वमपितयैवकथितमित्यवगन्तव्यं । सत्यंचासीद्वरंतव त्वदास्यप्रंविश्यनिर्गमनाद्ब्रह्मणादत्तोवरःसत्यआसीदित्यर्थः । वरशब्दस्य नपुंसकत्वमार्षे ॥ १७४ ॥ रामानु० समानयस्व संगमय ॥ १७६ ॥ रामानु० कैशिकंरागविशेषः तदाचार्यैः तुंबुरुप्रभृतिभिरित्यर्थः । ऐरावतनिषेविते ऐरावतमितिऋजुदीर्घमिन्द्रधनुरुच्यते । तेननिषेवितेयुक्ते । 'इन्द्रायुधंत्विन्द्रधनुस्तद्दीर्घमृजुरोहितम् । ऐरावतंचविद्युत्तुचञ्चलाचपला' इतिवैजयन्ती ॥ १७९ ॥
- ↑ ङ. झ. ट. निविश्य.
- ↑ घ.--- ट. विपुलंवक्त्रं.
- ↑ घ. ङ. झ. ञ. ट. विषहिष्यसि.
- ↑ ङ. झ. ञ. ट. दशयोजनमायतां. घ. पञ्चयोजनमायतः.
- ↑ ङ. झ. ञ. ट. हनूमानभवत्तदा.
- ↑ इदमर्धे. झ. पाठेनदृश्यते.
- ↑ च. छ. ज. गिरिसंकाशं.
- ↑ क. ख. ङ.---ज. ट. सुरसाप्यास्यं.
- ↑ तांदृष्ट्वाविस्तृतास्यांतुइत्यर्धमारभ्यनवार्धानि झ. पाठेनदृश्यन्ते.
- ↑ क. अतःपरंहनूमांस्तुत्रिंशद्योजनं.
- ↑ घ. सुरसाचास्यं. क. सुरसाप्यास्यंचत्वारिंशत्तथायतं.
- ↑ ग.---ज. ञ. ट. मुच्छ्रितं.
- ↑ ङ. ञ. ट. तदैव.
- ↑ क. वक्त्रंयोजनाशीतिमायतं.
- ↑ घ. ञ. योजनोच्छ्रितं.
- ↑ ङ. ञ. ट. ननलप्रख्यः.
- ↑ ख. वक्त्रं. क. घ. चास्यं.
- ↑ क. झ. वायुपुत्रस्स. ख. वायुपुत्रस्तु.
- ↑ घ. सुघोरनरकोपमं. ङ.---झ. सुभीमं.
- ↑ ख.---ट. ससंक्षिप्यात्मनः. क. संक्षिप्यचात्मनः. घ. ङ. झ. ञ. ट. पाठेषु. सुसंक्षिप्यात्मनःकायमित्यर्धस्यस्थाने. ससंक्षिप्यात्मनःकायंजीमूतइवमारुतः । तस्मिन्मुहूर्तेहनुमान्बभूवाङ्गुष्ठमात्रकः. इत्येकःश्लोकोदृश्यते.
- ↑ ङ.---ट. सोभिपद्याथ. ग. सन्निपत्याशु.
- ↑ ङ.---ट. महाबलः.
- ↑ क. ख. घ. श्रीमान्प्रहसन्निदमब्रवीत्.
- ↑ ख. घ. सत्यंचास्तुवचस्तव. क. सत्यश्चास्तुवरस्तव.
- ↑ ग. वातजं.
- ↑ क. ग.---ट. समानयच.
- ↑ घ. गरुडोयथा.