पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[ सुन्दरकाण्डम्
श्रीमद्वाल्मीकिरामायणम् ।

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ॥ विमानैः []संपतद्भिश्च विमलैः समलंकृते ॥ १८० ॥
वज्राशनि[]समाघातैः []पावकैरुपशोभिते ॥ कृतपुण्यैर्महाभागैः स्वर्गजिद्भिर[]लंकृते ॥ १८१ ॥
वहता हव्य[]मत्यर्थ सेविते []चित्रभानुना ॥ ग्रहनक्षत्रचन्द्रार्कतारा[]गणविभूषिते ॥ १८२ ॥
महर्षि[]गणगन्धर्वनागयक्षसमाकुले ॥ विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १८३ ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ॥ विताने जीवलोकस्य []वितते ब्रह्मनिर्मिते ॥ १८४ ॥
बहुशः सेविते वीरैर्विद्याधर[१०]गणैर्वरैः ॥ जगाम [११]वायुमार्गे तु गरुत्मानिव [१२]मारुतिः ॥ १८५ ॥
[[१३]हनुमान्मेघजालानि प्राकर्षन्मारुतो यथा ॥ १८६ ॥
कालागरुसवर्णानि रक्तपीतसितानि च ॥ कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ १८७ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा] ॥ १८८ ॥
प्रदृश्यमानस्सर्वत्र हनुमान्मारुतात्मजः ॥ भेजेऽम्बरं निरालम्बं [१४]लम्बपक्ष इवाद्रिराट् ॥ १८९ ॥
[१५]प्लवमानं तु तं दृष्ट्वा सिंहिंका नाम राक्षसी ॥ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १९० ॥
[१६]अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥ [१७]इदं हि मे महत्सत्वं चिरस्य वशमागतम् ॥ १९१ ॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ॥ छायायां [१८]गृह्यमाणायां चिन्तमायास [१९]वानरः ॥ १९२ ॥
समाक्षिप्तोस्मि सहसा पङ्गूकृतपराक्रमः ॥ प्रतिलोमेन वातेन महानौरिव सागरे ॥ १९३ ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्त[२०]तः कपिः ॥ [२१]ददर्श स महत्सत्वमुत्थितं लवणाम्भसि ॥ १९४ ॥


नकथनसमये तयैव कथितमित्यनुवादात्कल्प्यते ॥ १७४-१७८ ॥ आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुं आकाशस्वरूपं वर्ण्यते सेवित इत्यादिना श्लोकसप्तकेन ॥ कैशिकाचायैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः ॥ १७९-१८० ॥ वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः ॥ १८१ ॥ हव्यं वहता देवेभ्यो हव्यवहनार्थं गतेन । चित्रभानुना वह्निना ॥ १८२ ॥

विश्वे विश्वगते व्यापक इत्यर्थः ॥ १८३ ॥ देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणं ॥ १८४-१९० ॥ दीर्घस्य कालस्य दीर्घकाले गते सति । अद्य आशिता आशित्री भुक्तवती । भविष्यामि ॥ १९१ ॥ समाक्षिपत् सम्यग्गृहीतवती ॥ १९२ ॥ पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकू-


ति० पतगोरगाः पक्षिसर्पाः ॥ १८० ॥ रामानु० वज्राशनिसमाघातैःवज्राशन्यो:समःतुल्यःआघातःअभिघातःयेषांतैः ॥ १८१ ॥ ती० आकाशस्यैकोनपञ्चाशदग्निसंबन्धमुक्त्वाातत्प्रधानभूतचित्रभानुसंबन्धमाह वहतेति ॥ तेि० वज्राशनिसमस्पर्शैः तद्वत्प्राणहरैः । पावकैःपञ्चाग्निभिरिवस्वर्गजिद्भिरधिष्ठिते ॥ स० स्वर्गजिद्भिःप्राप्तस्वर्गैः । धनजिते स्वर्जितेइत्यादाविवजिधातुः प्राप्त्यर्थकः ॥ १८१ ॥ स० नक्षत्राणिपुंनक्षत्राणि । तारागणःअश्विन्यादिसमूहः ॥ १८२ ॥ रामानु० विविक्तइति । विश्वेविशतीति विश्वःव्यापकइत्यर्थ ॥ १८३ ॥ रामानु० वितानेउल्लोचभूते । 'अस्त्रीवितानमुल्लोचः' इत्यमरः । हनुमान्मेघजालानीत्यादिसार्धश्लोकद्वयंप्रमादाल्लिखितं ॥ १८४ ॥ ति० महानौर्यथापङ्गूकृतपराक्रमास्तब्धगतिःप्रतिलोमेनवातेनक्रियते । गम्यदेशगतिनिरोधएवात्रस्तब्धगतित्वं । यद्वातेनयथाविपरीतगतिवारणाययन्त्रैःस्तब्धगतिःकार्यतेतथाऽहंकेनचित्स्तब्धगतिःकृतः ॥ १९३ ॥

  1. ग. च. छ. ज. संपतद्भिश्चविमलैर्विमानैः. घ. विमानैर्निष्पतद्भिश्चविविधैः.
  2. झ. ट. समस्पर्शैः.
  3. ङ. झ. ठ. पावकैरिव.
  4. ङ. झ. ट. रधिष्ठिते. च. छ. ज. ञ. रधिश्रिते.
  5. क. ख. घ.---ट. मत्यन्तं.
  6. घ. कृष्णवर्त्मना.
  7. क. ख. घ. गणनिषेविते.
  8. क. देवगन्धर्व.
  9. ग. ङ.---ट. विमले.
  10. क. घ. ङ. झ. ञ. ट. गणैर्वृते.
  11. ख. च. छ. ज. वायुमार्गेण. ङ. झ. ञ. ट. वायुमार्गेच. क. घ. वायुवेगेन.
  12. क. वानरः.
  13. इमानिपञ्चार्धानि क. ख. घ.---ट. पाठेषुदृश्यन्ते.
  14. ङ.---ट. पक्षयुक्तइवाद्रिराट्.
  15. क. ग. प्लवमानंहि.
  16. घ. अद्यैवदीर्घकालस्य.
  17. ङ.---ट. इदंममहासत्वं.
  18. क.---घ. संगृहीतायां.
  19. क. मारुतिः.
  20. ङ. झ. ञ. ट. स्तदाकपिः. क. ग. घ. च. छ. ज. स्ततस्ततः.
  21. ख. ददर्शच. ग. ददर्शसहसासत्वं.