श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् ॥ किमेष भगवान्नन्दी भवेत्साक्षादिहागतः ॥ २ ॥ येन शतोमि कैलासे मया संचालिते पुरा || सोयं वानरमूर्ति : साकिस्खद्वाणोपि वाऽसुरः || ३ || स राजा रोषताम्राक्ष: ग्रहस्तं मन्त्रिसत्तमम् || कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥ ४ ॥ दुरात्मा पृच्छयतामेष कुतः किं वाऽस्य कारणम् | वनभङ्गे च कोस्यार्थो राक्षसीनां च तर्जने ॥५॥ मत्पुरीमप्रवृष्यां वाऽऽममने किं प्रयोजनम् || आयोधने वा किं कार्य पृच्छचतामेष दुर्मतिः ॥६॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् || समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥७॥ यदि तावत्वमिन्द्रेण प्रेषितो रावणालयम् ॥ तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ॥ ८ ॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च | चौररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥ विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा ॥ ९ ॥ न हि ते वानरं तेजो रूपमात्रं तु वानरम् || तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे |॥ १० ॥ अनृतं वदत्तश्चापि दुर्लभं तव जीवितम् ॥ अथवा यन्निमित्तं ते प्रवेशो रावणालये ॥ ११ ॥ एवमुक्तो हरिश्रेष्ठस्तदा रक्षीगणेश्वरम् || अब्रवीन्नासि शक्रस्य यमस्य वरुणस्य वा ॥ १२ ॥ धनदेन न मे सख्यं विष्णुना नामि चोदितः ॥ जातिरेव मम त्वेषा वानरोऽहमिहागतः ॥ १३ ॥ दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया || वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ॥ १४ ॥ ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥ रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ॥ १५ ॥ अखपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि || पितामहादेव वरो ममाप्येषोभ्युपागतः ॥ १६ ॥ राजानं द्रष्टुकामेन मयाऽस्त्रमनुवर्तितम् || विमुक्तो सहमत्रेण राक्षसैस्त्वभिपीडितः ॥ १७ ॥ शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यं ॥ ३–४ | | कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण संबन्धः दुरामा पृच्छषतामिति । अस्य विवरणं कुत इत्यादि । ॥ १० - ११ ॥ रक्षोगणेश्वरमित्यनेन प्रष्टारं प्रहस्तं कुतः कस्माद्देशादागतः । किं वास्य कारणं । अस्य पृष्ठतः कृतवानिति गम्यते ॥ १२ ॥ एषा वानरता कः प्रेरकः ।। ५ ।। मत्पुरीं प्रतीति शेषः । आयोधने ॥ १३ ॥ राक्षसेन्द्रस्य तवेति शेषः ॥ १४ ॥ प्रति- युद्धे । किं कार्य किं प्रयोजनं ॥ ६–७ ॥ यदि युद्धाः प्रतिप्रहृताः ॥ १५ ॥ ममापीति बवेवेत्यर्थः वैश्रवणस्येत्यादेः दूतो विजयकाङ्क्षिणेत्यन्तस्य तत्त्वमा- ॥ १६ ॥ तर्हि कथं बद्धोसीत्याशयाह- -राजान- ख्याहीति पूर्वेण संबन्धः ॥ ८–९ ॥ यन्निमित्तं | मिति । पीडित: बद्धस्सन् । अस्रेण विमुक्तः । ति० नन्दी वानरमुखएवप्रमथगणाधिपः । स० यद्यपिमारुतिरितिइन्द्रजितंप्रतिरावणेनोक्तत्वान्नेयंशङ्कासंभवति । तथापि नन्दिबाणाभ्यांखस्यपराभूतत्वाद्भयेनतच्छङ्कायुक्तेतिज्ञेयं ॥ २ ॥ ती० शप्तः मन्मुख सदृशमुखैस्तवनाशोभविष्यतीतिशप्तः ॥ ३ ॥ स० दुर्मतिः दुरित्यव्ययंदुःखवाचि । एवमस्मदीय दुःखेम तिर्यस्यसतथा ॥ ६॥ स० भद्रंतइत्युक्तिरुत्तरत्ररक्षःक्षयोनकार्य इति सुमुखी.. करणार्थ ॥ ७ ॥ ति० चाररूपं चाराणांप्रच्छन्नवेषत्वाच्छकृतवानररूपं ॥ ९ ॥ ति० वानरमितीदमर्थेऽणन्तं ॥ १० ॥ ति७ एषा वानराकृतिः । ममजातिरेव जन्मकृतैव । अतोवानर एवाहमिहागतः । राक्षसेन्द्रस्य तव दर्शनेदर्शन निमित्तं । इहागत - त्यर्थः । तदिदंतवदर्शनंदुर्लभं प्रकारान्तरेणाशक्यलाभंइतिज्ञात्वा तवदर्शनार्थेवनंविनाशितं ॥ १३–१४ ॥ ति० इदानींयुद्ध- प्रयोजनमाह — रक्षणार्थमिति । प्रतियुद्धाः मयाप्रतिभटतयास्थित्वाकृतयुद्धाः । स० प्रति स्खयुद्धंप्रति युद्धं मयाकृतंयेषांतेतथा ॥ १५ ॥ ति० नन्वेवं भाविबन्धाद्यपर्यालोच्य कथंयुद्धंकृतंतत्राह – अस्त्रैरिति । अस्त्रैः ब्रह्मास्त्रान्तैः । पाशैः यमपाशान्तैः । एवंचेतरपाशकथापिदुरापास्तेत्युक्तं । देवासुरैः मिलितैरपीत्यर्थः ॥ १६ ॥ ती० ननुतवास्त्रबन्धाभावे किमि तिब्रह्मास्त्रेणबद्धोराक्ष- सैःपीज्यसइत्यतआह—राजानमिति । अनमुक्तोपि कार्यवशाद्बुद्धिपूर्वक मेवाहमेभिःपीज्ये । एतन्ममाकिञ्चित्कमितिभावः [ पा० ] १ ङ. झ॰ ञ. ट. प्रहसिते. २ ङ. झ ञ. ट. राक्षसानांच. ३ च. ज. ज. कपिरूपमिदं. ४ क. ख. ङ. झ. ट. यनिमित्तस्ते. ५ घ ङ. झ. ट. देषवरोममापिहिसमागतः. ६ ङ. झ. ट, विमुक्तोप्यहमत्रेण च छ, ज, ज. विमुक्तो- स्म्यहमेन्रण. ७ घ. राक्षसैरति, ङ, झ. ट. राक्षसैस्त्वभिवेदितः, क, ख. ग. छ. ज. राक्षसस्त्वतिपीडितः
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति