पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १ ]
१५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ॥ []कपिराजेन कथितं सत्वमद्भुतदर्शनम् ॥
छायाग्राहि []महावीर्यं तदिदं नात्र संशयः ॥ १९५ ॥
स तां बुद्ध्वाऽर्थतत्वेन सिंहिकां मतिमान्कपिः ॥ व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १९६ ॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ वक्त्रं प्रसारयामास []पातालान्तरसन्निभम् ॥ १९७ ॥
[]घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १९८ ॥
स ददर्श ततस्तस्या []विवृतं सुमहन्मुखम् ॥ कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १९९ ॥
स तस्या []विवृते वक्त्रे वज्रसंहननः कपिः ॥ संक्षिप्य मुहु[]रात्मानं []निष्पपात महाबलः ॥ २०० ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥ []ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ २०१ ॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥ उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ २०२ ॥
तां तु दृष्ट्या च धृत्या च दाक्षिण्येन [१०]निपात्य च ॥ [११]स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ २०३ ॥
हृतहृत्सा हनुमता पपात [१२]विधुरांभसि ॥ [[१३]स्वयंभुवैव हनुमान्सृष्टस्तस्या निपातने ] ॥ २०४ ॥
तां हतां [१४]वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥ भूतान्याकाशचारीणि तमूचुः [१५]प्लवगोत्तमम् ॥ २०५ ॥
भीम[१६]मद्य कृतं कर्म महत्सत्वं त्वया हतम् ॥ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ २०६ ॥
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥ धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ २०७ ॥


लेन ॥ १९३-१९४ ॥ तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ॥ १९५-१९७ ॥ समभिद्रवत् समभ्यद्रवत् ॥ १९८ ॥ कायमात्रं देहप्रमाणं ॥ १९९ ॥ मुहुस्संक्षिप्य संनिकर्षानुगुणं संकुच्य ॥ २००–२०१ ॥ ततः तंन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ २०२ ॥ दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ॥ २०३ ॥ विधुरा आर्ता

॥ २०४-२०५ ॥ अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टि: आयतिक्षमसूक्ष्मेक्षणं । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यं यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतं । तान्येव चत्वार्याह---धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति । या दृष्टिर्नावसीदति । या मतिर्नावसीदति । यद्दाक्ष्यं नावसीदति एतानि चत्वारि यस्य सन्ति तत्त्वया हतमिति योजना


स० कायमात्रं कायस्य स्वदेहस्य मात्रा परिमाणं यस्यतत् । स्वशरीरकबलीकरणयोग्यमितियावत् । मर्माणि सन्धिस्थानानि ॥ १९९ ॥ स० आत्मानंआत्मीयंवपुः । कंपयतिशत्रूनितिकपिः । कंपेर्नलोपश्चेतिनलोपः । कुडिकेभ्यइतीत्वं ॥ २०० ॥ रामानु० अथवानरःमनस्संपातविक्रम:मनोगमनसमानगतिःसन्तीक्ष्णैर्नखैःतस्यामर्माण्युत्कृत्यततः आस्यात्वेगेनोत्पपात । आस्यपिधानात्पूर्वमेवोत्पपातेत्यर्थः ॥ २०२ ॥ ति० ननुप्रथमप्रवृत्तवेगस्यसुरसादिःकुण्ठीभावेसतिकथंपुनराकाशगमनंतत्राह---आत्मवान् । वायोरिवस्वाधीनएवतद्गमनविषयोयत्नः । प्रथमंत्वाकाशमार्गप्राप्तिमात्रायमहेन्द्रपर्वतालंबनमितरजनप्रतारणायवेत्याहुः । अत्रकविरुत्प्रेक्षते---तस्याच्छायाग्रहणमात्रेणभक्षणादिशक्तिमत्या:सिंहिकायानिपातने निपातनिमित्तं रावणनाशायस्वात्म..परामवत्स्वस्वरूपोहनुमान्सृष्टः । ति० महत्सत्वं महाबलाराक्षसीरावणवदशक्यसंहारा । त्वयासंहृतेत्यर्थः । अरिष्टं बाधारहितं । ..रेष हिंसायां' ॥ २०६ ॥ स० यस्यपुरुषस्यदृष्टिःअपरोक्षज्ञानं । मतिःपरोक्षज्ञानं दाक्ष्यंदक्षत्वं ॥ २०७ ॥

  1. ङ.---ट. कपिराज्ञायथाख्यातं. क. ख. घ. कपिराज्ञायदाख्यातं.
  2. घ. महासत्वं.
  3. ग.---च. झ. ञ. ट. ... तालांबरसंनिभं. क. पातालतलसंनिभं.
  4. घ. मेघराजीव.
  5. ङ.---ट. विकृतं.
  6. ग. ङ.---ट. विकृते.
  7. क. च. छ. ज. पुनरात्मानं.
  8. क. ङ. झ. ञ. ट. निपपातमहाकपिः. छ. ज. निष्पपातमहाकपिः.
  9. क. गृह्यमाणं.
  10. च. छ. ज. निहत्यसः. ङ. झ. ट. निपात्यसः.
  11. ङ. छ. ञ. ट. कपिप्रवीरोवेगेनववृधे.
  12. ख. ग. लवणांभसि.
  13. इदमर्धे ग.---ट. पाठेषुदृश्यते.
  14. च. छ. ज. ञ. वानरेणाथ. ग. वानरेन्द्रेण.
  15. क.---घ. छ. ज. प्लवगर्षभं.
  16. च. छ. ज. भीममत्यद्भुतंकर्म. क. भीममद्यमहत्कर्म.