पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥ परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १७ ॥ शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः ॥ राक्षसाः क्रूरकर्माणञ्चारयन्ति स तां पुरीम् ॥ १८ ॥ अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः || हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ १९ ॥ अथापश्यद्विमानानि विचित्राणि महाकपिः ॥ संवृतान्भूमिभागांच सुविभक्तांच चत्वरान् ||२०|| वीथीश्च गृहसंबाधाः कपिः शृङ्गाकानि च ॥ तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥ गृहांश्च मेघसंकाशान्ददर्श पवनात्मजः ॥ २१ ॥ चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ घोषयन्ति केपिं सर्वे चौरीक इति राक्षसाः ॥ २२ ॥ स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ तं प्रदीपितलालं हनुमन्तं दिदृक्षवः ॥ २३ ॥ दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥ राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २४ ॥ यस्त्वया कृतसंवाद: सीते ताम्रमुखः कपिः ॥ लाकूलेन प्रदीप्तेन स एष परिणीयते ।। २५ ।। श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् || वैदेही शोकसंतप्ता हुताशनमुपागमत् ॥ २६ ॥ मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः ॥ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ २७ ॥ यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ॥ यदि चास्त्येकपत्नीत्वं शीतो भव हनुमतः ॥ २८ ॥ यदि किंचिदनुक्रोशस्तस्य मध्यस्ति धीमतः ॥ यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥२९॥ यदि मां वृत्तसंपन्नां तत्समागमलालसाम् || स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ३० ॥ यदि मां तारयेदार्य: सुग्रीवः सत्यसङ्गरः || अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनुमतः ॥ ३१ ॥ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोनलः ॥ जज्वाल मृगशाबाक्ष्याः शंसन्निव शिवं कपेः ॥ ३२ ॥ त्यनन्तरमितिकरणं बोध्यं ॥ १६ ॥ संवृताकारं नाभावः ॥ २४ ॥ परिणीयते परितो नीयते ॥२५॥ गूढस्वभावं | महाकपिमिति बुद्ध्या महत्त्वं । कपिकु- ! उपागमत् उपासितवती ॥ २६ ॥ तस्य हनुमतः । रमिति सजातीय श्रैष्ठ्यं ।। १७ || स्वकर्मभिः | मङ्गलाभिमुखी अदाहपरा | प्रयता शुद्धिमती । आस्फोटनसिंहनादैरित्यर्थः । तां पुरीं घोषयन्तः । " पवित्रः प्रयतः पूतः " इत्यमरः ॥ २७ ॥ पतिशु- अत्यन्तसंयोगे द्वितीया । चारयन्ति स्म तमिति शेषः श्रूषादिपदं तत्फलपरं । शीतो भव तेनेति शेषः । ॥ १८ ॥ चारयामास शोधयामास ॥ १९ ॥ चत्व- एकपत्नीत्वं पातिव्रत्यं ॥ २८ ॥ किंचिदनुक्रोश इति रान् गृहबहिरङ्गणानि ॥ २० ॥ शृङ्गाटकानि चतुष्प- समस्तंपदं | तस्य रामस्य । भाग्यशेषः । इदानीं थानि । रथ्या: महावीथी: । उपरथ्या: अवान्तर- निरन्तरदुःखानुभवात् भाग्यप्रसक्तिरेवनास्तीतिमन्य- वीथी: । गृहकान्तरान् गृहकाणि क्षुद्रगृहाणि अन्त- मानाया इदं वचनं ॥ २९ ॥ मम पातिव्रत्यं यदि राणि प्रच्छन्नद्वाराणि । अन्तर्द्वाराणीत्यर्थः । " तोरणोऽस्त्री बहिरं प्रच्छन्नद्वारमन्तरं " इति हनुमान् जानाति तदा शीतो भवेत्याह—यदि मामि- वैजयन्ती । अक्लीबत्वमार्षं ॥ २१ ॥ चत्वरेषु चत- ति ॥ ३० ॥ यदि मां तारयेदिति । मत्तारणे इदमेव सृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्स्तम्भमण्ड- ज्ञापकमिति भावः ॥ ३१ ॥ ततः सीतोपगमात् । पेषु । चार एव चारीकः | स्वार्थे कप्रत्ययः । आर्षो कपेरनलः कपिवालाग्निः । मृगशाबाक्ष्याः सीतायाः । दीर्घः ॥ २२–२३ || शंसुः शशंसुः | आर्षो द्विर्वच - | शुभं शंसन्निव प्रदक्षिणशिखो जज्वालेत्यन्वयः ||३२|| प्रागुपपादितरहस्येतिदिक् । पुच्छस्योद्दीपनेनचेत्यस्योत्तरश्लोकेनान्वयः ॥ १५ ॥ ति० स्वकर्मभिः राजद्रोहिणोदुष्टस्यैवंदण्डइत्ये- वमादिभिः । घोषवन्तः । पूर्ववृत्तान्तस्य सर्वान्प्रतिप्रकटंप्रतिपादनंघोषणं ॥ १८ ॥ ति० एकपत्नीलं पातिव्रत्यं । शीतोभव हुता- [ पा० ] १ क. ङ. ~ट. रथ्याच. २ क. घ. पुरीसर्वे ३ ङ. झ. ट. चारइत्येव. ४ क. घ. मुपासिता. ५ क. ग. घ. च. छ. कश्चिदनुक्रोशः, ६ क, ग. घ. च. छ, ज. अस्माद्दुःखान्महाबाहुश्शीतो. १४७ V