पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ 2 मेरुमन्दरसंकाशा मत्ता इव महागजाः || छादयन्त इवाकाशं महाकाया महावलाः ॥ ३ ॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् || हनुमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ४ ॥ राघवे चार्थनिर्वृत्ति कर्तुं च परमं यशः ॥ समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५ ॥ प्रिंयाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ॥ सर्वे रामप्रतीकारे निश्चितार्था मनखिनः ॥ ६ ॥ प्लवमानाः खैमात्य ततस्ते काननौकसः || नन्दनोपममा सेदुर्वनं मलतायुतम् ॥ ७ ॥ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् || अवृष्यं सर्वभूतानां सर्वभूतमनोहरम् || ८ || यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ॥ मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ९ ॥ ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ॥ वानरा वानरेन्द्रस्य मैनः कान्ततमं महत् ॥ १० ॥ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् || कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ११ ॥ ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् || अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे ॥ १२ ॥ [ते निसृष्टा: कुमारेण धीमता वालिसूनुना || हरयः समपद्यन्त द्रुमान्मधुकराकुलान् ॥ १३ ॥ भक्षयन्त सुगन्धीनि मूलानि च फलानि च ॥ जग्मुः महर्षं ते सर्वे बभूवुश्च मदोत्कटाः ॥ १४ ॥] ततश्चानुमताः सर्वे संग्रहृष्टा वनौकसः || मुंदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ॥ १५ ॥ गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् || पतन्ति केचिद्विचरन्ति केचित्लवन्ति केचित्प्रलपन्ति केचित् ॥ १६ ॥ २१६ परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते || परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ १७ ॥ द्रुमाद्दुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ॥ महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतन्ति ॥ [ धावन्ति केचित्सुपतन्ति केचिन्महाबला वानरयूथमुख्या: ] ॥ १८ ॥ गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदनुपैति ॥ रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदनुपैति ॥ १९ ॥ इवेत्युत्प्रेक्षा ॥ ४ ॥ अर्थनिर्वृत्तिं अर्थसिद्धिं | समा- | पूर्वमेव सीतादर्शनात्प्रहृष्टाः ततः मधुवनभङ्गे निश्चय संकल्प्य वा । समृद्धार्थाः सिद्धकार्या: । अङ्गदेनानुमतास्संन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्य- कर्मसिद्धिभिः कार्यसिद्धिभिः । उन्नता: इतरेभ्य न्तोऽभवन् ॥ १५ ॥ मधुवनभङ्गाभ्यनुज्ञानकृतं उत्कृष्टाः ॥ ५ ॥ रामप्रतीकारे रामप्रत्युपकारे । पुष्ठु- वानरहर्षविकारमेव वर्णयति सर्गशेषेण - गायन्ति बुरिति पूर्वेणसंबन्धः ||६ - ९॥ परमोत्कटाः परमो- केचित्प्रणमन्ति केचिनृत्यन्ति केचित्प्रहसन्ति केचित् । त्सुकाः ॥१०॥ मधुपिङ्गला: मधुवत्पिङ्गलवर्णाः वान- पतन्ति केचिद्विचरन्ति केचिलवन्ति केचित्प्रलपन्ति राः ॥ ११ ।। अनुमान्य अनुमतिं कारयित्वा | निसर्गे केचित् । इति पाठः । प्रणमन्ति अवाक्छिरसः विसर्जनं । अनुमतिमिति यावत् ॥ १२ – १४ ॥ | पतन्ति | पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति।।१६-१९॥ वनंप्रतीतिशेषः ॥ २ ॥ ति० रामप्रतीकारे रामकर्तव्येरावणप्रतीकारे । निश्चितार्थाः अभूवन्नितिशेषः ॥ ६ ॥ ति० हर्षमुदो बाह्यान्तरत्वकृतोभेदः ॥ १५ ॥ ति० तत्रबाह्यमानन्दसूचकमाह - गायन्तीति ॥ १६ ॥ स० परुषाणि क्रूराणि | उवाच । [ पा० ] १ क. घ. प्रियाख्यानपरा: २ ख. ग. घ. खमुत्पत्य क. समुत्पत्य. ३ ग.-ट. द्रुमशतायुतं. ४ ख. ग. ङ. झ. ट. महावीरः ५ ज. सोयं. ६ ङ. झ ञ ट मनःकान्तंमहावनं. ग. च. छ. ज. मनःकान्तमहद्वनम्. घ. मनःकान्त- तरंमहत्. ७ ख. लवतांमधुभक्षणे. ८ इदं श्लोकद्वयं ङ. -ट. पाठेषुदृश्यते. ९ च. - ट. सुसंहृष्टाः १० ग. मुदिताश्चतत केचित्प्रनृत्यन्तितथापरे. क. घ. - छ. झ० ज० ट. मुदिताश्चततस्तेच प्रनृत्यन्तिततस्ततः ११ इदमर्धे क. पाठेदृश्यते-