पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः २ ]
१९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

संपूर्णां []राक्षसैर्घोरैर्नागैर्भोगवतीमिव ॥ अचिन्त्यां सुकृतां []स्पष्टां कुबेराध्युषितां पुरा ॥ २४ ॥
दंष्ट्रिभिर्बहुभिः शूरैः []शूलपट्टिशपाणिभिः ॥ रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ २५ ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ॥ रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥
[]आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ॥ नहि युद्धेन वै लङ्का शंक्या जेतुं []सुरैरपि ॥ २७ ॥
[]इमां तु विषमां []दुर्गां लङ्कां रावणपालिताम् ॥ प्राप्यापि []स महाबाहुः किं करिष्यति राघवः ॥ २८ ॥
अवकाशो न []सान्त्वस्य राक्षसे[१०]ष्वभिगम्यते ॥ न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥
चतुर्णामेव हि गतिर्वानराणां [११]महात्मनाम् ॥ वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥
यावज्जानामि वैदेहीं यदि जीवति वा नवा ॥ [१२]तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ३१ ॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ गिरि[१३]श्रृङ्गे स्थितस्त[१४]स्मिन्राम[१५]स्याभ्युदये रतः ॥ ३२ ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ॥ प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ ॥
[१६]उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ॥ वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ३४ ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया ॥ प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३५ ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ॥ हनुमांश्चिन्तयामास विनि[१७]श्चित्य मुहुर्मुहुः ॥ ३६ ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ॥ अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥
न विनश्येत्कथं कार्यं [१८]रामस्य विदितात्मनः ॥ एकामेक[१९]श्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ ॥
[२०]भूताश्चार्था [२१]विपद्यन्ते देशकालविरोधिताः ॥ विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ ॥


च्छानच् ॥ २३-३० ॥ एवं विचार्य नायमेतद्विचारकाल इत्यनुशेते---यावदिति ॥ यावत् यदा । जीवति वा न वेति वैदेहीं जानामि । तत्रैव काले तां जनकात्मजां दृष्ट्वा चिन्तयिष्यामि । यद्वा यावच्छब्दोवधारणे । जानाम्येव जीवति वा नवेतेि जानाम्येव । यदि जीवति तदा तां जनकात्मजां दृष्ट्वा तत्रैव तत्काल एव । चिन्तयिष्यामीत्यन्वयः ॥ ३१ ॥ चिन्तयामास वैदेहीदर्शनोपायमिति शेषः ॥ ३२-

३४ ॥ लक्ष्यालक्ष्येति लक्ष्यशरीरत्वे राक्षसा गृह्णीयुः । अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टुं । प्राप्तकालं युक्तं ॥ ३५ ॥ विनिश्चित्य सीतान्वेषणप्रकारं विनिश्चित्य । मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ॥ ३६-३७ ॥ एकश्च पश्येयमिति अत्रापि कथमित्यनुषञ्जनीयं । रहिते एकान्ते ॥ ३८ ॥ पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि ॥ नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि तथासति


रिपुंचनिरीक्ष्यज्ञात्वावानरश्चिन्तयामासेतिसंबन्धः ॥ २३ ॥ रामानु० आगत्यापीति । अत्रापिशब्देनदुस्तरसागरलङ्घनपूर्वकमागमनमेवदुर्घटमितिसूच्यते ॥ २७ ॥ रामानु० स:सालगिरिभूविदलनादिषुदृष्टपराक्रमइत्यर्थ । स० राघवःकिंकरिष्यतीत्येतल्लङ्कास्तुत्यर्थं । नतुरामस्यासामर्थ्याभिप्रायं । ति० अविषमांनविद्यतेविषमायतस्तां ॥ २८ ॥ रामानु० सान्त्वस्यावकाशाभाव आसुरप्रकृतित्वात् । दानस्यावकाशाभावोऽर्थोपचितत्वात् । भेदस्यावकाशाभावो बलदर्पितत्वात् । युद्धस्यावकाशाभावो बुद्धिपराक्रमयुक्तत्वात् ॥ २९ ॥ स० आगत्यापीति पूर्वमङ्गीकृत्य सर्वेषामागमनमुक्तं । वस्तुतस्तदपि नसंभवतीत्याह---चतुर्णामिति ॥ ३० ॥ ति० रामस्याभ्युदयं तदभ्युदयरूपसीतान्वेषणोपायं ॥ ३२ ॥ रामानु० विनिश्श्वस्यमुहुर्मुहुरित्यनेन समुद्रलङ्घनादपि लङ्काप्रवेशस्यदुष्करत्वंद्योत्यते ॥ ३६ ॥ ती० पृषदंशकमात्रः पृषान्मूषिकान्दशतीतिपृषदंशोमार्जारः । 'ओतुर्बिडालोमार्जारःपृषदंशकआखुभुक्' इत्यमरः । शि० वृषदंशकमात्रःवृषाणांमूषकाणांदंशकोमार्जारःतन्मात्र । "वृषोगव्याखुधर्मयोः इतिहैमः-

  1. ट. राक्षसैर्वीरैः.
  2. घ. पुष्टां.
  3. घ. शूलमुद्गरपाणिभिः.
  4. ग. आगताश्चापि.
  5. ग. सुरासुरैः.
  6. ङ. झ. ञ. ट. इमांत्वविषमां.
  7. क. ख. घ.---ट. लंकांदुर्गां.
  8. ङ. च. छ. ञ. ट. सुमहाबाहुः.
  9. साम्नस्तु.
  10. क. ग. ष्वधिगम्यते.
  11. ङ. ञ. ट. तरस्विनां.
  12. ञ. तदैव.
  13. ख. ङ. झ. ञ. ट. गिरेःशृङ्गे.
  14. च. छ. ज. स्थितःश्रीमान्.
  15. ङ. झ. न्रामस्याभ्युदयंततः.
  16. ङ.---ट. महौजसो.
  17. झ. विनिश्श्वस्य.
  18. क. रामस्याक्लिष्टकर्मणः.
  19. झ. ञ. मेकस्तु.
  20. ग. च. ज. ञ. भूतार्थाश्च.
  21. ङ. झ. विनश्यन्ति.