[ सुन्दरकाण्डम् ५ .२२६ श्रीमद्वाल्मीकिरामायणम् । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ व सीता वर्तते देवी कथं च मयि वर्तते ।। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ४ ॥ रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ || चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ५ ॥ श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः ॥ प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥ ६॥ ['तं माणं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा || दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत् ॥७॥] समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम् || अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ ८ ॥ तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥ दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ९ ॥ तत्र दृष्टा मया सीता रावणान्तः पुरे सती ॥ संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ १० ॥ दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ११ ॥ दुःखमासाद्यते देवी तैथाऽदुःखोचिता सती ॥ १२ ॥ रावणान्तः पुरे रुद्धा राक्षसीभिः सुरक्षिता || एकवेणीघरा दीना वैयि चिन्तापरायणा ॥ १३ ॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे || रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ देवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया ॥ १४ ॥ इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयताऽनघ ॥ सा मया नरशार्दूल विश्वासमुपपादिता ॥ १५ ॥ ततः संभाषिता देवी सर्वमर्थं च दर्शिता || रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। १६ ।। नियतः समुद्राचारो भक्तिश्वास्यास्तथा त्वयि ॥ १७ ॥ एवं मया महाभागा दृष्टा जनकनन्दिनी ॥ उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १८ ॥ अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके | चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १९ ॥ विज्ञाप्यच नरव्याघ्रो रामो वायुसुत त्वया | अखिलेनेह यदृष्टमिति मामाह जानकी ॥ २० ॥ संकेतो रावणेन कृत इत्यर्थ: । मासशब्दःपक्षपर इत्यु - | त्रिधा विभागं विना बद्धः केशपाशः एकवेणीत्युच्यते क्तं प्राकू । तमिति शेषः ॥ ३–५ ॥ प्रणामश्च ॥ १३ ॥ अधःशय्या स्थण्डिलशायिनी । मर्तव्ये सीतायाः स्मरणकृत इति बोध्यं । सीताया दर्शनं मरणे कृतनिश्चया ॥ १४-१५ ।। सर्वमर्थ च यथेति । येन प्रकारेण सीतादर्शनं जातं तेन प्रकारे- दर्शिता सुग्रीवसख्यप्रभृतिसर्वमर्थं च बोधिता ॥१६॥ णोवाचेत्यन्वयः ॥ ६–७ || दिदृक्षया नतु श्रोतु- समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वयि भक्तिश्च । मिच्छया । मार्गमाण इत्यर्थः ॥ ८ ॥ तत्र लगने वर्तत इति शेषः ॥ १७ ॥ तपसा अनशनेन ॥१८॥ कृते सति ॥ ९ ॥ हे राम रामा सीता । त्वयि अभिज्ञानं चिह्नभूतं वाक्यं । तवान्तिके पूर्वं यथा मनोरथं स्वाभिलाषं । संन्यस्य जीवन्ती । त्वदमिला- येन प्रकारेण जातं तथा दत्तमित्यर्थ: । तदेव दर्शय- षेण धृतजीवितेत्यर्थः ॥ १० – ११ || दुःखमित्यर्धं । ति — चित्रकूट इति । सदस्यवक्तव्यत्वात्सूचनोक्तिः आसाद्यते आसीदति । आर्षो यत् ||१२|| एकवेणीधरा ॥ १९ ॥ अखिलेनेति । रावणागमनादिकमित्यर्थः शिo सीताक्ववर्तते । मयिकथं केनभावेनवर्तते । वैदेहीं प्रति वैदेहीसंबन्धि । एतत्सर्वे यूयमाख्यात केनभावेनेत्युक्त्या तस्वकर्तृकरावणवधाभावजनितसीतामर्षविषयकसंभावनासूचिता ॥ ४ ॥ ति० तीरे दक्षिणसमुद्रसंबन्धिद्वीपसंनद्धतीरे ॥ ९ ॥ [ पा० ] १ अयंश्लोकः ङ. – ट. पाठेषुदृश्यते. २ क. ख. ङ. ज. — ट. मापद्यते. ३ ङ. झ ञ ट त्वयावीरसुखो. चिता. क. ख. घ. तवादुःखोचितासती. च. त्वयाऽदुःखोचिता. ४ क. त्वचित्तात्वत्परायणा. ५ ख. च. छ. ज. ज. कीर्त- यतामया. ६ ख. साचमेराजशार्दुल ७ ङ. झ. शनैर्विश्वासितातदा. ८ ख. रामसुग्री वयोः सख्यं ९ ङ. झ. स्सदा. १० ङ. झ. ट. विज्ञाप्यः पुनरप्येषरामो. ११ ङ. च. झ. अखिलेनयथादृष्टमिति.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति