विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ॥ ऋक्षस्य केतुमाल[१]स्य मम चैव गतिर्भवेत् ॥ १६ ॥
[२]समीक्ष्य तु [३]महाबाहू राघवस्य पराक्रमम् ॥ [४]लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥
तां रत्नवसनोपेतां गोष्ठागा[५]रावतंसकाम् ॥ यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥
तां नष्टतिमिरां [६]दीप्तैर्भास्वरैश्च [७]महागृहैः ॥ नगरीं राक्षसेन्द्रस्य [८]ददर्श स महाकपिः ॥ १९ ॥
अथ सा हरिशार्दूलं प्रविशन्तं [९]महाबलम् ॥ नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ॥ स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ २१ ॥
[१०]पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ॥ मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय ॥ कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥
[११]न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ॥ रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ॥ कथयिष्यामि ते[१२] तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५ ॥
का त्वं विरूपनयना पुर[१३]द्वारेऽवतिष्ठसि ॥ किमर्थं चापि मां [१४]रुद्ध्वा निर्भर्त्सयसि [१५]दारुणा ॥ २६ ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥
अहं राक्षसराजस्य रावणस्य महात्मनः ॥ आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥
न [१६]शक्या मामवज्ञाय प्रवेष्टुं [१७]नगरी त्वया ॥ अद्य [१८]प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥
भवेत् ॥ १५ ॥ गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषामित्युक्तिश्चिन्ताप्रकारविशेषः ॥ १६– |
१७ ॥ तां रत्नेत्यत्र ददर्शेत्यपकृष्यते । नत्वेकं वाक्यं श्लोकद्वयं तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ॥ १८-२३ ॥ अभिगुप्ता समावृतेत्यर्थः । |
प्रसिद्धाप्रकर्षेण सिद्धगतिका ॥ १५ ॥ रामानु० अत्रइयमित्यनुषज्यते । गतिः विषयः भवेत् । ममचे..तिपश्चान्निर्देशेनसर्वोत्तरेणापिहनुमतास्वस्यनैच्यमनुसंहितमित्यवगम्यते ॥ ति० कुशपर्वणइति । कुशपर्वसदृशलोमवतइत्यर्थकमृ- क्षु.. यविशेषणं । अतिदीर्घकठोरलोमावृतत्वात्कपिमुख्यस्येतिविशेषणंच । तस्यैवममचैवगतिः अस्यामितिशेष ॥ १६ ॥ रामानु० विक...न्तंविक्रमं । भावेनिष्ठा । प्रीतिमानभवत् । रामलक्ष्मणाभ्यामनायासेनजेतुंशक्येतिमत्वाप्रीतिमानभूदित्यर्थः । स० सर्वेषामेषां विन..रामावलंबेनेयंजेतुंनशक्येत्येतत्प्रसंगात्स्मारितंरामलक्ष्मणयोर्विक्रमंस्मृत्वातुतोषेत्याह---समीक्ष्येति ॥ १७ ॥ रामानु० तामिति ..। अत्रददर्शेत्यपकृष्यते । यद्वाएकस्यतच्छब्दस्यप्रसिद्धिपरत्वेनश्लोकद्वयमेकंवाक्यं । ति० रत्रवसनोपेतां रन्नप्राकारवाससंच । गोष्ठान्यगाराणिचावतंसोयस्यास्तां । गोष्टंगोशाला । इदंवाजिशालादेरप्युपलक्षणं । यन्त्राणिप्राकारोपरिस्थापितानिक्षेपण्यादीनि । ... हस्तनीं ॥ १८ ॥ ति० तांप्रसिद्धांलङ्कांभास्वरैश्चमहाग्रहैः । चाच्चन्द्रकिरणैः ॥ १९ ॥ रामानु० स्वेनरूपेणअधिदेवतारूपेण ॥ २० ॥ रामानु० अतिष्ठततस्मैस्वात्मानंप्रदर्शितवती । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं ॥ ॥ रामानु० .. तवप्राणाःयावद्धरन्तिध्रियन्तेतावत्यत्तत्वं तत्कथयस्वकथय । "धृङ्अवसाने" विकरणादिप्रत्ययआर्षः । यावत्प्राणान्हरामिते ...वापाठः ॥ २३ ॥ रामानु० नशक्यमिति । लिङ्गसामान्येनपुंसकं । तथाचोक्तं भगवताभाष्यकारेण---'श्वमांसेनापिशक्यंक्षु.. पहन्तुंइति । रावणबलैःसमन्ततःअभिगुप्तासमन्ततःसंवृता । अतएवरक्षिता । शि० किंच अभितःचतुर्दिक्षुगुप्ताः राक्षसविजा.. तीयनिरीक्षणार्थमलक्ष्यरूपेणस्थिताराक्षसायस्यास्सा ॥ स० त्वांहत्वाऽन्तर्गच्छेयमित्याशापितवमास्त्वितिवाह---अभिगुप्तेति । अहं.. अन्ततःमृत्योस्सकाशादभिगुप्ताआसंअस्मि । अतोनत्वयावध्या ॥ ॥ ति० अथतयापृष्टोहनुमांस्तांप्रतितत्प्रश्नोत्तरकथनं प्रति.. ज्ञायसुरसावदेषापूज्यावासिंहिकावद्वध्यावेतिनिर्णेतुंपृच्छति---कात्वमिति ॥ २६ ॥ रामानु० आज्ञाप्रतीक्षा आज्ञानुवर्तिनी
- ↑ ङ. झ. ञ. ट. कपिमुख्यस्य.
- ↑ ङ.---ज. ञ. ट. समीक्ष्यच.
- ↑ ङ. झ. ञ. ट. महाबाहोः.
- ↑ च. छ. ज. ..मणस्यापि.
- ↑ ङ. झ. ञ. ट. रावतंसिकां.
- ↑ ख. ङ. झ. ञ. ट. दीपैः. च. छ. ज. दीप्तांभास्वरैः. क. दीप्तैर्भास्वरैर्भवनैः ....
- ↑ झ. महाग्रहैः.
- ↑ ङ.---ञ. सददर्श. क. घ. ददर्शहनुमान्कपिः.
- ↑ ङ. झ. ञ. ट. महाकपिं.
- ↑ क.---ट. पुरस्ता- ...तस्यवीरस्य.
- ↑ क.---ङ. नशक्या. ञ. अशक्यं.
- ↑ ङ. ञ. ट. यत्तत्वं. क. तत्त्वेन. झ. तत्तत्वं.
- ↑ क.---ट. द्वारेऽवतिष्ठसे.
- ↑ क. ख. च. छ. ज. क्रुद्धा. ङ. ञ. ट. क्रोधान्निर्भर्त्सयसि.
- ↑ क. ङ.---ट. दारुणे.
- ↑ क. ग. ङ.---ञ. शक्यं.
- ↑ ङ. ञ. ट. नगरीमिमां. क. वानरत्वया.
- ↑ च. छ. ज. प्राणान्परित्यज्य.