श्रीः
श्रीमद्वाल्मीकिरामायणम् ।
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।
सुन्दरकाण्डम् ५
श्रीरामचन्द्राय नमः ॥
प्रथमः सर्गः ॥१॥
सीतान्वेषणाय लङ्काजिगमिषया महेन्द्रगिरिशिखराज्जलधिमुल्लङ्घयताहनुमता मध्येसमुद्रं तच्चोदनया जलमध्यादभ्युद्गच्छतःस्वशिखरे स्वस्यविश्रममर्थयतोमैनाकगिरेः स्वकरतलसंस्पर्शनेन संमाननं ॥ १ ॥ तथा देवैः स्वबलपरीक्षणाय वरदानपूर्वकं प्रेषितया राक्षसरूपधारिण्यासुरसया स्वनिगरणाय बहुयोजनपरिमाणनिजवदनव्यादाने स्वतनुतनूकरणपूर्वकं तदुदरप्रवेशेन तदहिंसयैव बहिर्निर्गमनं ॥२ ॥ तथा सिंहिकाख्ययामहाराक्षस्या स्वच्छायाग्रहणपूर्वकं स्वग्रसनाय बहुयोजनविस्तीर्णनिजमुखव्यादाने स्वशरीरसंकोचनपूर्वकं तन्मुखप्रवेशेन तदुदरविदारणेन तदसुहरणपूर्वकंबहिर्निर्गमनं ॥३॥ तथा राक्षसजनासंभ्रमाय स्वशरीरतनुकरणेन लङ्काबहिस्स्थलंबगिरिशिखरे निपतनं ॥ ४ ॥
ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ॥ इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥
तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः ॥ अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमाञ्शठारिर्गुरुः ॥ १॥ श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः ॥ व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥ २ ॥ उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते । वक्ष्यति हि तत् "ब्रह्मा स्वयंभूः" इत्यादिना । यद्वा पूर्वस्मिन्काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तं । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते । तत इत्यादि । ततः जाम्बव- |
त्प्रोत्साहनानन्तरं । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे । रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतायाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशेपि पदन्यासान्वेषणसमर्थोयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरं शत्रुकर्शनः। "गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि । "महाजनो येन गतस्स पन्थाः" इत्युक्तसदाचारे स्थित इति शेषः । रावयति असत्प्रलापा- |
श्रीरामोजयति ॥ रामानु० श्रीमत्सुन्दरकाण्डेव्याख्येयानिव्याक्रियन्ते । पूर्वस्मिन्काण्डेमनसागमनंकृतमित्युक्तं । इदानींकायेनापिगमनंकर्तुमैच्छदित्याशयेनाह---ततइति ॥ अत्रगन्तुमितिपदमध्याहर्तव्यं । शत्रुकर्शनोहनुमान् रावणनीतायाःसीतायाः पदं निवासस्थानं अन्वेष्टुं चारणाचरितेपथि वर्त्मनि गन्तुमियेषेतियोजना । शि० चारणैः आचरिते अतिसंचारविशिष्टे ॥ १ ॥
वा. रा.१४९