पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९ ]
४७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

पुनश्च सोचिन्तय[]दार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ॥
अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ७४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः ॥ ९ ॥



शोभनं जन्म स्यादिति बुद्धिर्जातेत्यर्थः ॥ ७३ ॥ किंच चिन्तान्तरमाह---पुनश्चेति ॥ अथ सः हनुमान् सीता गुणतः पातिव्रत्यादिगुणत: ध्रुवं विशिष्टा हि । अस्यां एतद्विषये । महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति । आर्तरूपः अत्यन्तमार्तः । "प्रशंसायां रूपप्" पुनश्चाचिन्तयत् । वैदेह्या: दृढव्रतत्वात्पातिव्रत्यभङ्गो न भवेदेव । अपि तु मिथ्यापवादमेवोत्पादितवानिति भृशं दुःखितस्सन् चिन्तितवानित्यर्थः । यद्वा बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभर्त्रा संगता चेत्सीतापहरणं न कृतवांश्चेत्तदास्य सुजातमित्युक्तं । तत्र निरतिशयसौन्दर्यादिशालिन्या मैथिल्याः रक्षस्स्त्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अत: आर्तस्वरूपस्सन्नचिन्तयत् । मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायां । अनार्यकर्म धर्षणरूपं कर्म । कृतवान् ।

कष्टं सर्वमिदं लङ्कैश्वर्यं भ्रष्टं भविष्यतीत्यचिन्तयञ्चेत्यर्थः । यद्वा राघवधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणेनुरक्ताः ईदृशी राघवधर्मपत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बुद्धिर्बभूव ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अतएव वक्ष्यति---अहो वीर्यमित्यादिना । एवंहठादुक्त्वानुशयितवानित्याह---पुनश्चेति ॥ हि यस्मात्सीता गुणत: पातिव्रत्येन विशिष्टा सर्वोत्कृष्टा अत: आर्तरूपः किं मया व्याहृतमित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् ॥ ७४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥



...पदेष्टव्यमितिबुद्धिर्बभूव । "तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान्महाप्राज्ञनोपरोद्धुंत्वमर्हसि" इतिहितोपदेशस्यवक्ष्य...त्वात् । यद्वा एतासांमध्ये सीतानास्तीतिनिश्चिनोति---बभूवेति । इमाराक्षसराजभार्याः यथा यादृग्रूपवत्यइत्यर्थः । यदि किमि..... । राघवधर्मपत्नी ईदृशी किं ईदृग्रूपवतीकिं । किंतुत्रिलोकसुन्दरीत्यर्थः । अतएवात्र नास्तीतिशेषः । इत्यस्यहरीश्वरस्यसुजातं ...तंयथातथाबुद्धिर्बभूव ॥ ति० अथ सीताप्येतत्स्त्रयन्तर्गता नवेति विकल्प्याद्ये रावणस्यभद्रमेवेति बुद्धिर्हनुमतोजातेत्याह---...वेति । साधुबुद्धेर्हरीश्वरस्य इतिबुद्धिर्बभूव । इमामहाराक्षसराजभार्याःयथातद्भक्ताः राघवधर्मपत्न्यपि ईदृशी एतदन्तर्गता एतद्भु- ...चयदिस्यात् तदाऽस्य रावणस्यसुजातंभद्रमेवभवति । रावणभुक्तेति मयानिवेदितेसति सीतायांमृतायामिव राघवस्योपेक्षणाद्रा ...वधयत्नाप्रसक्तेरितिभावः ॥ शि० इमाराक्षसराजभार्या यथा स्वपतिस्मरणादिषुनिरताः । ईदृशी तथारामस्मरणादिनिरता ... राघवधर्मपत्नी । तत्स्मरणादीनांविघ्नोनकृतःस्यादित्यर्थः । तदा अस्य रावणस्यसुजातं कल्याणमेवेत्यर्थः । इतिसाधुबुद्धेर्हरीश्व...यबुद्धिः निश्चयोबभूव ॥ ७३ ॥ ति० यदीत्यनेन सूचितमस्यपक्षस्यात्यन्तासंभावितत्वमाह---पुनश्चेति । पक्षान्तरंचसोचिन्त... विचारेणनिश्चितवानित्यर्थः । चिन्ताप्रकारः हिप्रसिद्धमेतत् । यत्सीतादेवीगुणतःपातिव्रत्यादिगुणैर्विशिष्टा । अथ यतइत्यर्थे । ...महात्मामहाबलोलङ्केश्वरः । निरवधिकैश्वर्यवैशिष्ट्यमनेनसूचितं । ईदृशःअस्यांजानक्यांअनार्यकर्म अपहरणरूपंकर्म । आत्तरूपः ...गृहीतमायारूपःसन्कष्टं सक्लेशंयथाभवतितथाकृतवान् । यद्येषाऐश्वर्यादौसरागास्यात्तदास्वरसतएवनयनंस्यात्नचतदस्ति । ...स्माभिस्तद्विक्रोशनादेवरावणेनक्लेशपूर्वंनयनस्यचानुभवादित्याशयः । आर्तरूपइतिपाठे आर्तंसंजातपीडंरूपंयस्येत्यर्थं हनुमद्विशेषणं । ...न्तरपीडासूचकरूपइत्यर्थः । स० समहात्माहनूमान् पुनश्चैवमचिन्तयत् । हियस्मात् गुणतः पातिव्रत्यादिगुणैः सीता ...शिष्टाश्रेष्ठा । अथ तस्मात् अस्यांसीतायांतद्विषये । अयं रावणः अनार्यकर्म अपहरणादिजुगुप्सितंकर्म कृतवान् । अतोमृत्वा ...आर्तरूपस्सन् ध्रुवंकदाप्यनिवर्त्यतयाशाश्वतंकष्टं पञ्चकष्टाख्यंतमः यातीतिशेषः । रावणदेहे जीवद्वयसमावेशात्सज्जीवस्यपूर्वश्लो...केगतिरुक्ता द्वितीयस्यत्वत्रेतिविवेकः ॥ ७४ ॥ इतिनवमस्सर्गः ॥ ९ ॥

  1. दातरूपो