पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

सुखार्हा दुःखसंतप्तां व्यसनानामकोविदाम् ॥ तां [१]समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ २५ ॥
[२]ह्रियमाणा तदा तेन रक्षसा [३]कामरूपिणा ॥ यथारूपा हि [४]दृष्टा वै तथारूपेयमङ्गना ॥ २६ ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ कुर्वन्तीं [५]प्रभया देवीं सर्वा वितिमिरा दिशः ॥ २७ ॥
तां [६]नीलकेशी बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ २८ ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ २९ ॥
निश्श्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ शोकजालेन महता विततेन न राजतीम् ॥ ३० ॥
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ॥ ३१ ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ ३२ ॥
रामोपरोधव्यथितां [७]रक्षोहरणकर्शिताम् ॥ अबलां मृगशाबाक्षीं [८]वीक्षमाणां ततस्ततः ॥ ३३ ॥
बाप्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥ वदनेनाप्रसन्नेन निश्श्वसन्तीं पुनः पुनः ॥ ३४ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ॥ प्रभां नक्षत्रराजस्य [९]कालमेघैरिवावृताम् ॥ ३५ ॥
तस्य संदिदिहे [१०]बुद्धिर्मुहुः सीतां [११]निरीक्ष्य तु ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३६ ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ॥ संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ३७ ॥


॥ २४ ॥ उपपादिभिः उपपादनशीलैः । मन्दप्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपादिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ २५ ॥ एवं लिङ्गैः सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह ...माणेति ॥ इति तर्कयामासेति शेषः ॥ २६ ॥ ...ननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्त...त्यं । सुभ्रूं सुभ्रुवं । उवङभाव आर्षः । कुर्व... दश मासान् स्नानेन विना मलिनापि ...दिश वेतिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः ... सुप्रतिष्ठितां सुप्रतिष्ठितपादतलां ॥ २८- ...नराजतीं नराजन्तीं ॥ ३० ॥ तां प्रसिद्धां । ...मन्वाद्युक्तिं । संदिग्धां संदिग्धार्थां । ऋद्धिं ... निपतितां क्षीणां ॥ ३१ ॥ विहतां अविश्वा- |

सबहुलां । प्रतिहतां अलब्धकार्यां । सोपसर्गां सविघ्नां । सकलुषां सकालुष्यां । भावप्रधानो निर्देशः । अभूतेन असत्येन ॥ ३२ ॥ रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथितां ॥ ३३-३५ ॥ पुनः सीताशब्दोव्यवहितानुस्मरणार्थः । आम्नायानां वेदानां । अयोगेन असंबन्धेन । प्रशिथिलां अप्राप्तप्रतिष्ठां । विद्यां वेदबाह्यविद्यां । यद्वा आम्नायानां अभ्यासानामभावेन प्रशिथिलां अस्थिरपदां विद्यामिव सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः संदिदिहे इत्यन्वयः । कार्श्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ३६ ॥ संस्कारः शब्दव्युत्पत्तिः तेन हीनां अतएव विवक्षितादर्थान्तरंगतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिषितार्थंवक्तुमशक्नुव-


...रणमेवेतिसूचितं ॥ शि० जघनं पृष्ठान्तदेशंगतया । एकया केशविन्यासाभावेनजटीभूतया ॥ २४ ॥ स० व्यसना...दां कदाप्यदृष्टव्यसनां ॥ २५ ॥ ति० नीलकण्ठीं सौभाग्यसूचकेन्द्रनीलमणिमयकण्ठस्थभूषणप्रभया तद्वर्णकण्ठां । ...तां सुप्रति...सर्वावयवसंस्थानां ॥ २८ ॥ ती० चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तं । भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वं । ...वविभावसोरिति पातिव्रत्यं ॥ २९ ॥ स० रामोपरोधव्यथितां रामाभिः राक्षसस्त्रीभिः यउपरोधः इतस्ततोगमनप्रति...नव्यथितां ॥ ३३ ॥ ति० दुःखबोध्यत्वेहेतुः अनलङ्कृतामिति । संस्कारेणेति स्नानानुलेपनादिरङ्गसंस्कारः । वाचो ...ज्ञानादिजःसंस्कारः । देव्या अर्थान्तरगतत्वं देशान्तरगतत्वं । वाचस्तु विवक्षितार्थादन्यार्थबोधकत्वं । वाचोऽर्थो यथा-

  1. ङ. झ. ञ. ट. विलोक्य.
  2. ग. च. ज. ह्रियमाणातुसा.
  3. घ. क्रूररूपिणा.
  4. ञ. सादृष्टा. ङ. झ. ट. ...सा.
  5. ग. तेजसास्वेन.
  6. झ. ट. नीलकण्ठी.
  7. ङ. झ. ट. रक्षोगणनिपीडितां.
  8. घ. वीक्षमाणामितस्ततः.
  9. घ. ...लमेघैः.
  10. ङ. झ. ञ. ट. बुद्धिस्तथा.
  11. ग. निरीक्ष्यतां. ङ.---ट. निरीक्ष्यच.