पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

षोडशः सर्गः ॥ १६ ॥

हनुमता सीतायाः शुभशीलादिप्रशंसनेनसह खरविराधादिनिधनस्य तद्धेतुकत्वानुसन्धानपूर्वकं तद्दुरवस्थादर्शनेन परिशोचनं ॥ १ ॥

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः ॥ गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १ ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ॥ सीतामाश्रित्य [१]तेजस्वी हनुमान्विललाप ह ॥ २ ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ॥ यदि सीताऽपि दुःखार्ता कालो हि दुरतिक्रमः ॥ ३ ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ॥ नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४ ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ॥ राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५ ॥


प्रशस्तव्यां प्रशंसितव्यां रामं सीतां च । प्रशस्येति अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ १ ॥ सीतामाश्रित्य सीतां विषयीकृत्य ॥ २ ॥ गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरितक्रमः कालो दुरतिक्रमएवेत्ययमर्थः सिद्धोभवतीत्यर्थः । हिशब्दोऽवधारणे । अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं प्राप्तं तदा कालोदुरतिक्रमएवेतिभावः ॥ ३ ॥ व्यवसायज्ञा स्वयत्नं विहाय तद्व्यवसायमेव प्रेक्षमाणा "एतद्व्रतंमम अप्यहंजीवितं जह्यां" इत्येवं रामव्यवसायंंजानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः । रामे मायामृगानुसारिण्यपि मारीचोयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थं क्षुभ्यते । अत्यर्थमिति क्षोभाभावविशेषणं । क्षोभवि-

शेषणत्वे यत्किंचित्क्षोभः प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्यवाल्लभ्यवती । गङ्गेव जलदागमे । क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यतेतथेत्यर्थः ॥ ४ ॥ तुल्यशीलवयोवृत्तां शीलं खभावः । "अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितं" इति प्रक्रियया तुल्यस्वभावां । तुल्यवयस्कां षोडशवार्षिकस्य द्वादशवार्षिकी तुल्या । अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च । अतएव विष्णुः । "वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुणो वरः । द्व्यष्टवर्षोष्टवर्षां वा वयोमात्रावरा च या" इति । तुल्यवृत्तां । "दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितं" इति रामवृत्तं । "पापानां वा शुभानां वा वधार्हाणां प्लवंगम । कार्यं करुणमार्येण न... न्नापराध्यति" इत्युक्तवत्यास्सीताया वृत्तेन ... तुल्यशब्दोनुरूपपरः । रामानुरूपशीलवयश्वारि ...


}

ति० चिन्तापरः सीताविषयदुःखेनेतिभावः ॥ स० सीतामयिकथंविश्वासेनवदेदितिध्यानपरः ॥ १॥ सीतामाश्रित्य ...मुद्दिश्यतेजस्वी दर्शनानन्तरंकथंमैथिलींपश्येयमितिचिन्तारहितइतितेजस्वी ॥ शि० सीतां सीतादुःखं आश्रित्य अवलो... विललाप विविधमुवाच ॥ ति० लक्ष्मणस्यगुरुप्रिया । गुरोःरामस्यपत्नीत्वात्तद्वदेवपरमोपास्यत्वेनाभीष्टा । रामपत्न्यपियदिदु... तर्हि कालोदुरतिक्रमइति हि निश्चितमित्यर्थः । दुःखोपायघटकत्वस्य कालएवप्रसिद्धत्वादितिभावः । ननु नदुःखंसुखंवाक...जन्यं कर्मानुष्ठानवैफल्यापत्तेः । तत्सापेक्षकालजन्यत्वेपीश्वरावतारसीतारामयोः कर्माभावात्कथं दुःखमितिचेन्न । वस्तुतस्तु ...र्दुःखाभावेपि लोकानुग्रहाय गृहीतमनुष्यदेहयोस्तेषांमनुष्यत्वाभावबुद्धिप्रतिबन्धाय नटवद्व्यवहारमभिनयतोः सुखदुःखादिक...मुखविकासाद्यभिनयेन तन्मायामोहितस्यैव देवांशस्यहनुमतोऽभिनीतकार्यदर्शनेन तत्कारणानुमानाद्दुःखार्तत्वाद्युक्तेः सामञ्ज... यथाच परेणोद्बोधनंविना हनूमतःस्वबलपराक्रमांशेमोहः तथाऽनयोर्भगवत्स्वरूपत्वे इदानींतस्यमोहइति वक्तंशक्यत्वात् । ...भगवदिच्छयैव तस्यतयोःस्वरूपज्ञानेपि नकिंचिदवद्यं ॥ स० यद्वा गुरुविनीतस्य बहुनम्रस्य लक्ष्मणस्य गुरुप्रिया ज्येष्ठभ्रातृ ... मान्या । यद्वा गुरुविनीतस्य ब्रह्मादेर्लक्ष्मणस्यचेति व्यधिकरणषष्ठ्यौ । सर्वमान्या यदिसीतादुःखार्ता सेवाभूत् । हि यतः । ... कालोहिदुरतिक्रमः । देव्यादेवेनच स्वसमयावनाय कालोदुरतिक्रमः अनुल्लङ्घ्यस्वपराक्रमइव दर्शितइतिभावः । यद्वा सुख ... यद्दुःखार्तवदात्मानंदर्शयामास सहि ततः कालः रावणमृत्युः दुरतिक्रमः अनुल्लङ्घ्यः रावणेनेतिशेषः ॥ शि० सीतायदिदुःख... तर्हि कालः परमात्मसंकेतः दुरतिक्रमः ॥ ३ ॥ ति० नन्वेवंविधदुःखातिशये जीवनहानिरेवस्यादतआह---रामस्येति । ...क्ष्मणोरामः एवंविधेदुर्गेस्थितामपिमां दिव्यास्त्रैः समुद्रमपियेनकेनाप्युपायेनोल्लङ्घ्यात्रायास्यतीति तस्यव्यवसायज्ञा पराक्रमज्ञा ॥ ४ ॥

  1. घ. मेधावी.