पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १७]
७५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

इत्ये[]वमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निवि[]ष्टबुद्धिः॥
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥१६॥


सप्तदशः सर्गः ॥ १७ ॥

नभोमध्यंगतेचन्द्रे हनुमता परितःसीतामासीनानांघोरतरधिकृतनानाकृतीनांराक्षसीनांदर्शनम् ॥ १ ॥ तथा तन्मध्यगताया:सीतायाअवलोकनजहर्षेण सबाष्पविमोचनं मनसारामलक्ष्मणयोःप्रणामपूर्वकं शिंशुपाग्रेगूढतयाऽवस्थानम् ॥ २ ॥

ततः कुमुदषण्डाभो []निर्मलो []निर्मलं स्वयम् ॥ प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १ ॥
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ॥ चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २ ॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ॥ शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३ ॥
दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः ॥ स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४ ॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ॥ []अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५ ॥
[]अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ॥ ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम् ॥ ६ ॥
लम्बकर्णललाटां च लम्बोदरपयोधराम् ॥ लम्बोष्ठीं चुबुकोष्ठीं च []लम्बास्यां []लम्बजानुकाम् ॥ ७ ॥
[]ह्रस्वदीर्घां[१०] तथा कुब्जां विकटां वामनां तथा ॥ [११]करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८ ॥


शोकं जनयतीतिवचनविपरिणामेन संबन्धः ॥ ३१-३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दराकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥


...म प्रकर्षेण जगाम । आकाशपरभागं प्राप्त ...१-२ ॥ शोकभारैर्न्यस्तामिव आक्रान्ता- ...छानां । अतएव भारैर्न्यस्तां नावमिव स्थितां ... कर्णौ प्रावरणे शिरस आच्छादकौ ... कर्णप्रावरणा तां । शङ्कुवत्कर्णौ यस्यास्तां

शङ्कुकर्णां । मस्तकोच्छ्वासनासिकां ऊर्ध्वमुखनासिकामित्यर्थः ॥ ५ ॥ अतिकायोत्तमाङ्गीं । अत्रातिकायशब्देन महत्त्वमुच्यते । महाशिरस्कामित्यर्थः । ध्वस्तकेशीं स्वल्पकेशीं । अकेशीं अनुत्पन्नकेशीं । केशकम्बलधारिणीं कम्बलरूपकेशधारिणीं ॥ ६ ॥ लम्बे कर्णललाटे यस्यास्सा लम्बकर्णललाटा तां । चुबुके ओष्ठः यस्याः सा चुबुकोष्ठी तां ॥ ७ ॥ ह्रस्वदीर्घां अधःकाये ऊर्ध्वकाये च क्वचित् ह्रस्वां कचिद्दीर्घामित्यर्थः । कुब्जां स्थगुमतीं । विकटां स्थूलजङ्घां । कराला दन्तुरां । "करालो दन्तुरे तुङ्गे" इत्यमरः ।


... तस्मिञ्शिंशुपावृक्षएव निषसाद । तद्रात्रिशेषंपरदिनंच स्थितइत्यर्थः । एवंच सरावणान्तःपुरा सर्वापिलङ्का यामत्रयेण ... नदिनरात्रावेव विचिता । तुर्येयामेऽशोकवनिकाप्रवेशइतिबोध्यं ॥ ३२ ॥ इतिषोडशः सर्गः ॥ १६ ॥  ... नभसोनिर्मलत्वं स्वच्छनीलवर्णत्वं । नभसोनीलत्वंप्रतीत्या कविसंप्रदायेनचबोध्यं ॥ स० कुमुदषण्डाभः कुमुदानांश्वेतो...ण्डःसमूहः तस्याभेवाभायस्येतिवा तस्य आसम्यक् भा कान्तिर्यस्मादितिवा । "सितेकुमुदकैरवे" इत्यमरः । निर्मलं ...नीलमिवोदकमित्यनेन गगनेनैल्यमपिध्वनितं । आकाशेनैल्यंच "आकाशोनीलिमोदेति" इतिश्रुतेः ॥ १ ॥ ति० ...नादौप्रभया स्वकान्त्यासाचिव्यंसाहाय्यकमिव दिवाक्वचिदेकान्तप्रदेशेस्थितत्वान्निद्राव्याकुलत्वाञ्चनसम्यग्राक्षसीनांसीता...। रात्रौचन्द्रोदयेसतितुपुनस्समीपदेशआगत्यस्थितस्यसम्यक्सर्वदर्शनं ॥ २ ॥ ति० शोकभारैः न्यस्तां अधोनीतामिव ...नामिव ॥ ३ ॥ शि० कर्णावेवप्रावरणौ शरीराच्छादकौयस्यास्तां ॥ ५ ॥ स० अतिकायोत्तमाङ्गीं कायं मध्यदेहं वर्तमानशीर्षोपेतां ॥ ६ ॥

  1. छ. इत्येवसर्वं.
  2. ट. सुजातबुद्धिः. ग. विनम्रबुद्धिः. ङ. झ. तुजातबुद्धिः.
  3. क. च. छ. ज. ञ. निशीथे.
  4. ञ. ट. निर्मलोदयः.
  5. क. ग. अकर्णींशङ्कुकर्णींच.
  6. ग. अतिदीर्घोत्तमाङ्गीं.
  7. ग. लंबोरुं.
  8. घ. लंबनासिकां.
  9. झ. ...दीर्घां.
  10. क.---ट. दीर्घांचकुब्जांच.
  11. ग. करालीं.