पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोङ्कः ।

राजा-

श्रुतपूर्वं मयाप्येतत्कर्णाकर्णिकया भृशम् ।
मकरन्दमिहादेष्टुं सदयोऽहं व्यचिन्तयम् ॥ १७ ॥

(नेपथ्ये मृदङ्ग ध्वनिः ।)

कनकलेखा-- कथमस्मदगमनं प्रतीक्षन्ते बहव सङ्गतशालाभ्यन्तरे ।

राजा -- परं कार्यपरतया विस्मृतमेतत्सर्वमपि । तत्वरितं गम्यते । इन्दुशर्मन् , मामनुयाहि मकरन्देन । युवभ्यां किञ्चिद्गूढं वक्तुकामोऽस्मि । अयि बाले कौमुदि, सम्यगालोच्य तातमेवानुसर नोचेद्भज मरणमुत त्यज परिणयमेषाऽस्मद्दण्डनीतिरित्यवधार्यताम् । प्रिये कनकलेखे, सम्प्रति साधयामः (मकरेन्दुन्दुशर्माणौ दृष्ट्वा) अग्रतो गम्यताम् ।

इन्दुशर्मा-- यथाऽऽज्ञापयतेि देवः ।

( इति कौमुदीवसन्तवर्जमन्ये निष्क्रान्ताः । )

वसन्तः-- (कौमुदीचिबुकमुन्नमय्य ।)

सखि प्राणाधिकस्नेहे, कथं ते गण्डपाण्डिमा। ।
म्लानतां किं प्रयातीदं सुन्दरि, त्वन्मिखाम्बुजम् ।

कौमुदी-

वर्षाभावादिदं नाथ, कुसुमं तव ताम्यति ।
अभिषिञ्चामि तत्कान्त, पुष्कलेनाश्रुवारिणा ।। १९ ।।

वसन्तः-

श्रेयांसि बहुविघ्नानि किं भद्रे न श्रुतं त्वया ।
तस्मादत्र प्रलापेन न किंचित्कार्यमस्ति नः ।। २० ।।

V. 2