कौमुदी- अहो कोपविवर्तमानविषण्णवदनामपि मां कामयतेऽयं वराकः ।
सौदामिनी-- सखि, तव क्रोधवैवर्ण्यरामणीयकं धारयतु मे स्मितम् ।
कौमुदी-= हन्त ! शपथशतेन निवारयन्तीमपि मां मानमुत्सृज्यानुसरत्ययं मकरन्दहतकः ।
सौदामिनी-- आयि ते शपथशोभां भजतु मेऽनुरागनुतिसहस्रम् ।
कौमुदी-- यावदहं कुप्यामि तावदयं स्निह्यति । सौदामिनी- यावदहं स्निह्यामि तावदयं कुप्यति ।
कौमुदी– सौदामिनि, तदबोधो न मेऽपराधः ।
सौदामिनी– न तेऽयमपराधः, अपि तु ते लावण्यस्य । तादृशमपराधं लिप्सतेऽस्या मनो मन्दभागिन्याः ।
कौमुदी-- समाश्वसिहि प्रियसखि, नेतः पर द्रक्ष्यति मन्मुखं ते मकरन्दः । जिहासामि नगरमेनं प्रियवसन्तेन } यावदयं वसन्तो नावातरन्मे लोचनपथं तावदेव मामवर्तत रम्येयमवन्ती स्वर्ग इव । अहो ! गरीयाननुरागः यदुपघातात् त्रिदिवोपि निरयायते ।
वसन्तः-- ( सकरुणम् )
अयि सौदामिनि प्रेमबाहुल्यादनुतप्यसे । |
सखि, नास्ति किञ्चिदपि गोप्यं तव । श्व निशीथिन्यां नगरीमिमां त्यक्त्वा गमिष्यामि यत्र कुत्र वा कौमुद्या सह । शशाङ्कोदय एव कौमुदीनिर्गमः ।।