पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
वासान्तिकस्वप्ने

कौमुदी-- प्रियसखि, रजन्यामागामिन्यमेतस्य नगरस्य बाह्योद्याने अस्मत्केलिगृहायमाणबकुलवीथ्यां मदागमनदत्तचक्षुषा वल्लभवसन्तेनार्धरात्रे सङ्गम्य अवन्तीं हित्व।न्यदेशं गमिष्यामि । कथं त्वां पांसुक्रीडनात् प्रभृति प्रणयवतीं मुकत्वापसृता भवेयम् । तथापि कार्यवशेनैतत्करणीयं भवति त्वां पुनरपि | कालेन प्रेक्षिष्ये यदि दैवमनुकूलम् । मकरन्दमुपयम्य सुखमत्रैव वस । न भूयात्ते प्रत्यूहो मङ्गलपरपरायाः । सखि विस्रब्धं परिष्वजस्व मां त्वद्वियोगदुःखदुःखिताम् । ( इति परिष्वज्य ) नाथ वसन्त, अप्रमादेनाचर स्वप्रति श्रुतम् । । कथं वा त्वद्वियोगं सहिष्ये तावन्तं कालम् ।

वसन्तः- अयि महिले, न मया ' कदाचिदप्यसत्यमाचरितम् ।

(निष्क्रान्ता कौमुदी)

सौदामिनि, अनुरागाभिनिविष्टां त्वामेवोपयम्य कुशलीभवतु मकरन्दः । साधयामि। (इति निष्क्रान्तः )

सौदामिनी-- अहो ! केचन सुखिनः, केचन दुःखभागिनश्च भवन्ति नियत्या ! कौमुदीवाहमपि युवतिललामभूतैवास्मिन्नगरे । किमनया चिन्तय । मकरन्दस्तथा न मन्यते । यत्सर्वेपि मां शसन्तीति न किञ्चिदेतत् प्रियमकरन्दस्य । यथेैवायमद्य कौमुदीमेव कामयते तथैवाहमपि तम् । नीचमपि वस्त्वनुरागरञ्जितश्चेद्भवति रमणीयम् । मनोरथ एव कारणमनुरागस्य न चक्षुषी । उक्तञ्च ।

‘‘व्यतिषजति पदाराथीनान्तरः कोऽपि हेतु र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते ।