धान्यकः- वशुपाळिदा, भाणुमई होहि । वसुपालित, भानुमती भवेः ।
बसुपालितः- किणु शे भणुमई त्ति । के वि जत्तिए वीळे व । किं तद्भानुमतीति । कश्चिद्यात्रिको वीरो वा ।
धान्यकः-- श का वि तळुणी जं अम्हइन्दे कामेज्ज । सा कापि तरुणी यां अश्मकेन्द्रः कामयेत ।
वमुपालितः-- कइ वि हके अवळा ण होज्ज । किं णो अहए उम्भिज्जमाणम्हशुळिए ।
कदाप्यहमबला न भवेयम् । किं नाहमुद्भिद्यमानश्मश्रुकः। धान्यकः- इशि मुहं अच्छादिअ वेअ णडिश्शशि । मिउभा शी अ होहि ।
ईषन्मुखमाच्छाद्यैव नटिष्यसि । मृदुभाषी च भव ।
अधरकः-- अळे ळे धण्णआ, हगे अ मुहं अच्छादिअ भाणुवळ्ळहा, माणअ मईए वेशं गण्हिश्शं ! अहिणइश्शं । अ।ळविश्शं अ मंजु । अम्हइंद, पिआ तुह म्हि भाणू , भाणुमा, भाणुमी, भाणुमई त्ति अ शळशदळं अहिव्वाहलिश्शं ।
अरे रे धान्यक, अहमपि मुखमाच्छाद्य भानुमत्या वेषं ग्रहीष्यामि । अभिनेष्यामि । आलपिष्यामि च मंजु । वल्लभ ’ मानद , अश्मकेन्द्र, प्रिया तवास्मि भानूः, भानुनी, भानुमती, इति च सरसतरमभिव्याहरेयम् ।
धान्यकः- णो णो तुमं शि अम्हइंदे । वशुपाळिद, तं भाणुमई शि ।