पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४१)


कृतेषु सर्वेष्वथ शास्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु ।
विशेषचिह्नैर्निजमीशितुः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥७८॥

अन्वयः


 अथ क्षिते ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्त्मना कृतेसु (सत्सु) विशेषचिह्नेः निजं समासन्नफलं न्यवेदयत् ।

व्याख्या


 अथाऽनन्तर क्षिते पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधू स्त्रि क्रममनतिक्रम्य वर्तत इति, यथाक्रमक्रमानुसारेण सर्वेषु समग्रेषु पुसवनमादिर्येषा तानि कर्माणि सस्कारास्तेषु, पुसवनसीमन्तोन्नयने द्वावेय सस्कारौ गर्भधानसस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि सस्कारो भवति । शास्त्रवर्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिन्है- विशिष्टलक्षणैनिज स्वीय समासश्न निकटवति च तत् फल पुत्रोत्पत्तिरूप न्यवेदयत् सुचितवति ।

भाषा


 इसके अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुसवन सीमन्तोन्नयन प्रभृति सस्कारों के सम्पादित होने पर, विशेष रक्षण से, शीघ्र होने वाले अपने पुत्र रूप फलं की सूचना दी ।


त्रिलोकलक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिप्लुतः।
अदूराच्छालतिकाफलोदयः क्वचिन्न माति स्म मुदा नरेश्वरः ।।७६।।

अन्वयः


 त्रिलोकलक्ष्म्या सलीलम् ईक्षितः इव कृतद्रयैः चन्द्रकरैः आप्लुतः इव अदूरयाच्छालतिकाफलोदयः नरेश्वरः मुदा कश्चित् न माति स्म ।


व्याख्या


 त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलील सविलासमीक्षितो दृष्ट इव, कृतो द्रयो जलह्यं येषां ते कृतद्रयास्तैर्द्रवीभूतंश्चन्द्रकरैश्शिकिराप्लुतो- भिषिक्त इवाऽदूरे समीपस्थ एष याच्छालतिकायाः इच्छालताया फलस्य पुत्ररूप