पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८४

पुटमेतत् सुपुष्टितम्

( १५८ )

नराणामीश्वरस्तस्य मानवेश्वरस्य रत्नं उताङ्गमङ्कमारुह्य स्थित्वा निजाङ्गतःस्वीयावयवेभ्यः संगलितैरयं:पतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य कार्मणं मूलौषधिद्वारा वशक्रिया 'मूलकर्म तु कार्मणम्' इत्यमरः । तत्कृते यच्चूर्णमोषधिचूर्णं तस्य योगं योज्जनां चक्रे विहितंवान् । कुमाराङ्गलितं धूलिभिर्नृपस्य प्रेमपूरितं हृदये वशीकृतमिव संजातमिति भावः । अत्र निर्दर्शनालङ्कारः।

भाषा

 मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का दिखलाई पडने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झडी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिचूर्ण प्रयोग करता था ।

राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः ।
तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥

अन्वयः

 राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त ।

व्याख्या

 राज्ञां सामन्तभूपानां प्रणमार्थं विहितमञ्जलिसम्पुटं तेषु सत्सु द्वाभ्यां युताभ्यां कराभ्यां सर्वे राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेलयेत्यर्थः । अवज्ञयोपेक्षया ‘रीढावमाननायज्ञांयहेलनमसूक्षणम्' इत्यमरः । मुकुलीकृते 'अमुकुलो मुकलः कृतः इति मुकुलीकृतः' 'अभूततद्भावेच्वि:। कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । ईप्सडकुचितेऽक्षिणो यस्य स देवो । राजाऽऽह्वमल्लदेवस्तस्य बालकस्यकहस्ताम्बुरुहमेककरकमलं समुत्याप्य कृतः प्रणामस्तस्मिन् सति आत्मानं स्वं कृतार्थं कृतकृत्यं सफलजन्मवन्तमित्यर्थः । अमंस्त मेने ।नृपर्बद्धाञ्जलिभिः प्रणामे कृतेऽप्यवहेलनयाऽऽहवमल्लदेवस्य दृष्टिस्तेषामुपरि संन्कुचितेवाऽऽसित् । परञ्च बालकृतैकहस्तप्रणामे तु स प्रसन्नतया क्रुत्यकृत्यो बभूव।