पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

{{bold|

(( १६४ ) )


लावण्यलुब्धाभिरलब्धमेव भूपालकन्पामधुपाङ्गनाभिः ।

कवित्ववक्तृत्वफला चुचुम्ब सरस्वती तस्य मुखारविन्दम् ॥१३॥

अन्वयः

कवित्वयक्तृत्वफला ’सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब ।


व्याख्या

कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता, भावः । यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चाऽनायासेनैव प्रतिफलतीति लावण्ये कुमारस्य सौन्दर्ये लुब्भाभिस्तद्वसाकाङिक्षणीभिर्भूपालानां राज्ञां कन्या राजकुमार्यं एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धसंप्राप्तं तस्य कुमारस्य मुखमेवाऽरविन्दं कमल ‘वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृसान्ते पालकन्यासु भमराङ्गनात्वा नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गनात्वा भेदारोपाम्मुखे चाऽरविन्दवाभेदारोपाद्रूपकालङ्कारः ।तेन चाऽस्य विलक्षणं कवित्वं वाग्मित्वञ्च व्यज्यते ।


भाषा

उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने चूम लिया । अर्थात् सरस्वती ने उसके मुख में वास कर लिया। अतएव वह

तं बालचन्द्रं परिपूर्यमाणमालोक्य लावण्यकलाकलापैः । कुमुद्वतीनामिव कामिनीनां निशासु निद्रा विमुखीबभूव ।२०।

{{bold|

अन्वयः

 निशासु लावण्यकलाकलापैः परिपूर्यमाणं तं बालचन्द्रम् आलोक्य कुमुद्वत्तीनाम् इव कामिनीनां निद्रा विमुखीबभूव ।