पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२१ )


स तत्क्षणात्परिम्लानमुखं संमुखपातिनम् ।
ददर्श राजधानीतः प्रधानं दूतमागतम् ॥३७ ।

अन्वय:

 सः तत्क्षणात् राजधानीतः आगतं परिम्लानमुखं संमुखपातिनं प्रधान दूतं ददर्श ।

व्याख्या

 स विक्रमाङ्कदेयस्तत्क्षणात् तस्मिन्नेव समये राजधानीत कल्याणपुरत आगतप्राप्त परिम्लान ग्लानिपरीत मुखमानन यस्य त चिन्तितवदनमित्यर्थं । ससुखमग्रे पतति समागच्छतीति समुखपाती त समुखमागच्छन्त प्रधान विशिष्ट दूत सदेशहर ‘स्यात्सदेशहरो दूत' इत्यमरः । ददर्श दृष्टवान् ।

भाषा

 उसी समय उसने कल्याणपुर से आए हुए उदास मुख वाले सामने उपस्थित मुख्य दूत को देखा ।

अथ कुलकेन दूतं वर्णयति कविः—

अप्रियावेदने ज़िह्वा-मवगम्य पराङ्मुखीम् ।
कथयन्तमिवानर्थं श्वासैरत्यर्थमायतैः ॥३८॥

अन्वय:

 अप्रियावेदने जिह्वा पराङ्मुखीम् अवगम्य अत्यर्थम् आयतैः श्वासेः अनर्थं कथयन्तम् इव (तं राजनन्दनः पप्रच्छ ।) इति द्विचत्वारिंशत्तमेन श्लोकेन सम्बन्धः ।

व्याख्या

 अप्रियस्याऽशुभवृत्तान्तस्याऽऽवेदने कथने जिह्वा रसनां पराङ्गमुखी विमुखी, मनुद्युक्तामित्यर्थ । अवगम्य ज्ञात्वाऽत्यर्थमत्यन्तमायतैदीर्घ ’श्वासै श्वसनै करणेरनर्थमनिष्ट श्ययन्तमिव विज्ञापयत्तमिव (राजनन्दन पप्रच्छेति द्विचत्वरिशंतम श्लोकेन सम्बन्ध ) । अत्रोप्रेक्षालङ्कर ।