पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३२ )

व्याख्या

  अथाऽनन्तरं वत्सलः पितृविषयकस्नेहवान् राजनन्दनो राजकुमार आसन्नं समीपागतं कृतप्रणामं कृतनमस्कारं तं दूतं तातपादानां मम पितृचरणानां कुशलं क्षेममस्तीति 'कुशलं क्षेममस्त्रियाम्' इत्यमर । पप्रच्छ पृष्टवान् ।


भाषा

 इराके अनन्तर पास में आकर प्रणाम करने वाले उस दूत को पिता का प्रेम रखने वाले राजपुत्र ने पिता जी कुशल तो है, ऐसा पूछा ।

 पञ्चभिः कुलकं पञ्चश्लोकात्मकं कुलक ‘मत्र समाप्तमित्यर्थः ।

उपविश्य शनैः पार्श्वे स निरुत्सा हया गिरा ।
कथयामास नासाग्र-विलुठद्वाष्पशीकरः ॥४३॥

अन्वयः

 सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्वाष्पशीकरः (सन्) निरुत्साहया गिरा कथयामास ।

व्याख्या

 स दूतः पार्श्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्ती वर्तमाना वाष्पशीकरा अश्रुबिन्दवो यस्येवं भूतस्सन् 'शीकरोऽम्बुकणा स्मृताः’ इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती' इत्यमरः । कथयामास उवाच ।

भाषा

 वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आंसू की बूद से युक्त होकर अनुत्सहित वाणी से बोलने लगा ।

विधेहि दृढ़मात्मानं मावधीरय धीरताम् ।
कुमार व्यापिपर्येप दुर्वाताप्रलयाम्युदः ।४४।।

 ९ छन्दोबद्धपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मक सदानितक त्रिभिरिष्यते। कलापक चतुर्भिश्च पञ्चभि कुलक मतम् । २ निरुत्सवयेत्यपि पाठ