पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२५८)


व्याख्या

  प्रघाबन्त्योऽतितीव्रवेगेनाऽऽपतन्त्यः समुद्रपक्षे वहन्त्यः सम्मुखा अभिमुखा अनेका बहव्यो वाहिन्यः सेनाः पक्षे नद्यः ‘वाणिन्यौ नर्तकदूत्यौ स्रवन्त्यामपि वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समयंस्तथाविधस्तादृशः सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः ‘सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयो. । पिशाचादायान्यभावे बले प्राणेषु जन्तुषु' इति हेमचन्द्रः । निधिरम्भोधिरिव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं समागच्छन्तीनां नदीनां गाहने समर्थःजलजन्तूनां निधिस्समुद्र इव तीव्रवेगेन सम्मुखं समागच्छन्तीनां सेनाना बिलोडने समर्थे बलवान् सत्त्वगुणयुक्तो राजाऽऽहबमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमलङ्कारः ।


भाषा

  वेग से सम्मुख आने वाली नदियो को अपने में मिला लेने में समर्थ, जलजन्तुओं के निधि समुद्र के समान,वेग से सम्मुख आने वाली सेनाओं को मथ डालने में समर्थ, सत्वगुण या बल का निधि राजा आहवमल्लदेव के ऐसा पुरुष दुर्लभ है ।



आर्येण सौकुमार्यैक-भाजनेन इहा कथम् ।
अयं विषादवज्राग्निरसह्यत मया विना ॥८६

अन्वयः

  सौकुमार्यैकभाजनेन आर्येण अयं विषादवज्राग्नि मया विना कथम् असह्यत, हहा ।

व्याख्या

सौकुमार्यै कोमलता मार्दबं वा तस्यैकं भाजनं पात्रं तेन सौकुमार्येकभाजनेन स्नेहार्द्रपरममृदुस्वभावेनाऽऽर्येण पूज्येन ज्येष्ठभ्रात्रा सोमदेवेनाऽयमनुभूयमानो विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषह्यदुःखदहनो मया विना समाऽनुपस्थितौ कथं केन प्रकारेणाऽसह्यत सोढः । हहा इति खेदे । अहमेव ज्येष्ठ भ्रातुरतिप्रियोऽस्मि । दुःखकाले चाऽतिप्रियवस्तुनिरीक्षणेन मानसे शान्तिस्स ञ्जायते, दु:खसहनस्य क्षमताऽपि संपद्यते । ममाऽनुपस्थितौ कथं मे भ्राता तद्दुःख सहने समर्थो जातः स्यादिति भावः ।