पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३० )


विजयं प्राप्य विजयलक्ष्म्याः कृते विजयप्राप्तिस्थानेषु शान्तिं प्रस्थाप्य क्रीडोद्दानमिव रचितम् । पक्षे भ्रमरराज्यारूपलताप्रणयिप्रियालवृक्षाणां समृद्धिभिस्तेन राजलक्ष्म्याः कृते क्रीडोद्यानमिव रचितमिति भावः । श्लेषानुप्राणितोत्प्रेक्षालङ्कारः ।

भाषा

 चोल देश के राजा ने बाण तथा मौर्वी से सम्बन्धरखने वाले सेना के धनुषों के प्रभाव से जहाँ तहाँ शान्ति स्थापन कर मानो विजयलक्ष्मी के सैल सपाटे के लिये बाग बना दी थी । पक्ष में भौंरे और लता से प्रेम करने वाले प्रियाल वृक्षों के आधिक्य से मानो विजयलक्ष्मी के लिये जहाँ तहाँ विहार करने के लिये बाग बना दी थी ।

अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरङ्गिणीम् ।
कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥

अन्वयः

 सः पार्थिवः अप्रयाणरहितैः कैः अपि दिनैः तरङ्गिणीं प्राप। धीमतां कार्यजातम् असमाप्य निद्रया परिचयः अपि कीदृशः ।

व्याख्या

 सः पार्थिवश्चोलदेशनृपौऽप्रयाणं विश्रामस्तेन रहिता हीनास्तैर्विश्रान्तिरहितैः कैरपि कश्चिदेव दिनेदिवसैस्तरङ्गिणीं तुङ्गभद्रानदीं प्राप संप्राप्तः । धीमता बुद्धिमतां जनानां कार्यजातं कार्यसमूहमसमाप्य परिपूर्णमकृत्वा निद्रया विश्रामेण परिचयोऽपि सम्बन्धोऽपि कीदृशो भवति । न भवतीत्यर्थः । बुद्धिमन्तो विनैव कार्यसमाप्तिं विश्रामं नाऽऽश्रयन्तीति भावः। पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासलङ्कारः ।

भाषा

 वह चोलदेश का राजा रास्ते में कहीं विना विश्राम लिए कुछ ही दिनों में तुङ्गभद्रा नदी के पास पहुँच गया । बुद्धिमान् लोगो को बिना कार्य समाप्त किये निद्रा का परिचय कैसा ? अर्थात् बुद्धीमान् लोग बिना सम्पूर्णे कार्य पूरा किए विश्राम नहीं लेते ।