पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९ )

अन्वयः

 सरस्वती पञ्चमनादसूत्रचित्रोक्तिसन्दर्भ”विभूषणेषु यद्वदनेषु नित्यं । वीणां वादयन्ती इव आभाति ते जयन्ति ।

व्याख्या

 सरस्वती वागधिष्ठातृदेवता पञ्चमनादस्य पञ्चमस्वरस्य पिकस्य वा पिका गायन्ति पञ्चमममित्राणि समानानि चित्राणा रसालङ्कारादिना चमत्कारिणी नामुक्तीना काव्याना सन्दर्भा समूहा सम्यग्विरचनानि वा विभूषणान्यलङ्कर- णानि येषा तेषु प्रैषा कवीना वदनेषु मुखेषु नित्य निरन्तर वीणा कच्छपीं वादयतीव सारयन्तीवाऽऽभाति चकास्ति ते कवीश्वरा जयन्ति सर्वोत्कर्षेण वर्तन्ते । कविवदने सरस्वत्या । वीणावादनस्योत्प्रेक्षणादित्क्रियास्वरूपधर्मोत्प्रेक्षा । अभेदसम्बन्धातिरिक्तसम्बन्धेन वीणावादनस्य कविवदने सम्भाव्यमानत्वात् ।

भाषा

 हे कवीश्वर धन्य है, जिनके कोयल के शब्द के समान कर्णेन्द्रिय को सुख देने वाली, रस : अलङ्कार आदि से युक्त, चमत्कार पैदा करने वाली उक्तियों से अथवा कविता समूह से विभूषित मुखो में, सरस्वती अपनी कच्छपी बीन बजाती सी सदैव शभित होती है ।

साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यदस्य दैत्या इत्र लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥

अन्वयः

 हे कवीन्द्राः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत । यत् अस्य लुण्ठनाय काव्यार्थचौराः दैत्यः इव प्रगुणीभवन्ति ।

व्याख्या

 हे कवीन्द्रा कविश्रेष्ठा साहित्यमेव साहित्यशास्त्रमेव पाथसामुदकानां 'कबन्धमुदक पाप' इत्यमरः । निधि समुद्रस्तस्य मन्यत चिराभ्यासस्तस्मा- दुतिष्ठतीति साहित्यपाथोनिधिमन्थनीत्य साहित्यशास्त्ररूपसमुद्रलोडनोत्पन्न कर्णयो श्रोत्रयोरमृत पीयूष इक्षत विनाशात्परैर्हरणाद्वा गोपायत । यद्यस्मा त्कारणपदस्याऽमृतस्य लुण्ठनायाडपहरणाय काव्यार्थस्य काव्यरूपद्रव्यस्य चौरास्त”