पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५८ )

गगनमुपगतेन शोभते य-न्निरुपमकाञ्चनवप्रमण्डलेन ।
सुरपुरमिव हैमशैलमध्ये विबुधविभूतिभरात्कृतप्रवेशम् ॥२३॥

अन्वयः

 यत् विबुधविभूतिभरात् गगनम् उपगतेन निरुपमकाञ्चनवप्रमण्डलेन हेमशेलमध्ये कृतप्रवेशं सुरपुरम् इव शोभते ।

व्याख्या

 यद्गाङ्गकुण्डचोलपुरं विबुघानां देवानां पण्डितानां वा विभूतिभरादैश्वर्या तिशयाद्धेतोरन्यत्र भारात्-इवं साघर्म्यनिष्पादकहेतुनिरूपकं पदम्। गगनमाका- शमुपगतेन प्राप्तेन नास्ति उपमा सादृश्यं यस्य तन्निरुपममद्वितीयं यत्काञ्चनस्य सुवर्णस्य बप्रमण्डलं प्राकारपरम्परा (छडदिवाली इति भाषायाम् ) तेनाऽनुपम सुवर्णनिमितप्राकारपरम्पराहेतुना हेम्न सुवर्णस्य शैलः पर्वतः सुमेरुस्तस्य मध्ये डभ्यन्तरे कृत विहितः प्रवेशोऽभ्यन्तरस्थितिर्येन सद्विहितप्रवेशं सुराणां देवानां पुरं नगरममरावतीव शोभते विलसति । काञ्चनप्राकारान्तर्गतगाङ्गकुण्डचोल- पुरस्योपरि सुमेरुपर्वतान्तर्गतसुरपुरत्यस्योत्प्रेक्षणादुत्प्रेक्षा ।

भाषा

 जो गाङ्गकुड चोलपुर, बिद्वानो की अधिक समृद्धि से और आकाश चुम्बि अनुपम सोने की चाहार दिवारी से मानो देवो की अधिक समृद्धि से (अर्थात् बोझ से स्वर्ग से नीचे आई हुई) और (ऊचे) सोने से पर्वत सुमेरु के बीच में प्रविष्ट, अमरावती नगरी के समान शोभित होता था ।

विघटितपरिपन्थिसैन्यसार्थः पदमधिरोप्य स तत्र चोलसूनुम् ।
नयनचुलुकलुण्ठ्यमानकान्तिर्द्रविडवधूभिरूर्वास मासमात्रम् ॥ २४॥

अन्वयः

 विघटितपरिपन्थिसैन्यसार्धं सः 'चोलसूनुं पदम् अधिरोप्य तत्र द्रविड- वधूभिः नयनचुलुकलुण्ठ्यमानकान्तिः सन् मासमात्रम् उवास ।

व्याख्या

 विघटिताः शकलीकृताः परिपन्थिनां शूत्रूणां सेन्यसार्थाः सैनिकसमूहा येन