पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४०७ )


पर, और आकाश के वायुओं द्वारा लाए हुए जल कणों के मिप से मानो आकाशगङ्गा के जल को छिडक्ते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।)

अतिविशदतया दिशां मुखेषु स्मितमिव केतकमित्रमुद्वहत्सु ।
निखिलभुवनमानसेषु हर्ष-प्रसवशेन नितान्तमुत्सुकेषु ॥४६॥

अन्वयः

 दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु ) इव निखिलभुवनमानसेषु हर्षप्रस्रवशेन नितान्तम् उत्सुकेषु (सत्सु ) (विक्र मादित्यदेवोऽभिषेकमलभतेत्यन्वयः ।)

व्याख्या

 दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वप्रभावेषु वाऽतिविदतयाऽतिर्नर्मस्येन केतवयाः पुष्पं चेतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृश स्मितमीवद्धास्यमुद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्य प्राप्तास्वित्यर्थः। निखिलभुवनानां सकललोकस्थितजननां मान- सानि मनसि तेषु सकललोकगतजनमनःसु हर्षस्याऽऽनन्दस्य प्रसरो विस्तारस्तस्य यशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु ( विक्रमादित्यदेवोऽभिषेकमलभतेति । )

भाषा

 दिशाओं के अत्यन्त निर्मल होने से मानो श्वेत वेबडे के फुलो के समान उनके मुस्कराते रहने पर और समस्त लोको के मनुष्यों के मनों में आनन्द का संचार होने के कारण उनके उत्कण्ठित हो उठने पर ( विक्रमाङ्कदेव का राम्याऽभिषेक हुआ । )

वरकरिषु गभीरदुन्दुभीनां ध्वनिमिव संजनयत्सु गजितेन ।
दिशि दिशि तुरगेषु सान्द्रशङ्ख-स्वनकमनीयसहर्षहेपितेषु IF७

अन्वयः

वरकरिषु गर्जितेन गभीरदुन्दुभीनां ध्वनिं संजनयत्सु (सत्सु इय,