पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२० )

इति भ्रमत्सौरभमांसलेन निमीलितानां मलयानिलेन ।
अभूच्चिरं भूमिगृहस्थितानां प्रलापमाला प्रियकाङ्क्षिणीनाम्॥१४॥

अन्वय:

 भ्रमन्निसौरभमांसलेन मलयानिलेन निमीलितानां भूमिगृहस्थितानं प्रियकाङ्किणीनाम् इव प्रलापमाला चिरम् अभूत् ।

व्याख्या

 भ्रमन्नितस्ततः प्रसरत् यस्सीरभस्सुगन्धस्तेन मांसलो बहुलस्तेन प्रसरत्सुगन्ध बहुलेन मलयानिलेन दक्षिणपवनेन निमीलितानां व्ययितानां भूमौ पृथिव्यामष- स्तात् गृहाणि सदनानि, ग्रीष्मातपनिवारणाय भूम्यभ्यन्तरे निर्मितानि शीतभव नानि तेषु स्थिता विद्यमानस्तासां प्रियाणां प्रेमास्पदजनानां पतीनामित्यर्थः । काङ्क्षिण्योऽभिलाषिण्यस्तासां ललनानां वियोगिनीनामित्यर्थः । इति पूर्वोक्त प्रकाराः प्रलापमाला निरर्थकवाक्यकदम्बः विप्रलापो विरुद्धोक्तिः प्रलापोऽनर्थकं वचः' इत्यमरः । चिरं बहुकालपर्यन्तमभूज्जाता ।

भाषा

 चारो ओर फैलने वाली सुगन्ध से भरे दक्षिण वायु से पीड़ित, तल घर में (तहखाने में) रहने वाली, अपने प्रिय की अभिलाषा रखने वाली वियोगिनी स्त्रियो के पूर्वोक्त प्रकार के निरर्थक वाक्यसमूह चिरकाल तक चलते रहे ।

                                     इति षट्श्लोकात्मकं कुलकम् ।

कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य ।
चैत्रस्य सर्वर्तुविशेषचिन्हं दोलालिसासः सुदृशां रराज ।१५॥

अन्वय:

कन्दर्पदेवस्य विमानसृष्टिः, रसपार्थिवस्य प्रासादमाला चैत्रस्य सर्वर्तु विशेषचिन्हं सुदृशां दोलाविलासःरराज ।

व्याख्या

 कन्दर्पदेवस्य कामदेवरुप 'कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः