पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७ )

भाषा

 दुर्जनो में दुसरो को निन्दा करना यह दोष नहीं कहा जा सकता। क्यो कि दूसरों के अच्छे गुणो की निन्दा करना उनका स्वभाव ही होता है । कुछ लोग ऐसे भी हैं जिनको कपूर भी डली के ऐसी पौढे से बनी सफेद चीनी भी अच्छी नही लगती ।

सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः ।
न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥

अन्वयः

 कविताविलासाः कुङ्कुमकेसरणा न सहोदराः भयन्ति । यत् मया तेषा प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः ।

व्याख्या

 कवितायाः सत्कविताया विलासा विभ्रमा कुडकुमस्याऽग्निशिखस्य 'अथ कुङ्कुमम् । कश्मीरजन्माग्निशिख वर वाह्वीकपोतने' इत्यमर । केसरा किञ्जल्का 'किञ्जल्क केसरोऽस्त्रियाम्' इत्यमर । तेषा नून निश्चयेन सहोदरा एकदेशजन्यत्वाद् भ्रातरो भवन्ति सन्ति । यद्यस्मात्कारणान्मया च कविना बिल्हणेन तेषां कविता विलासाना कुङ्कुमकेसराणाञ्च प्ररोहोऽङ्कुर उदगम इत्यर्थः । शारदाया सरस्वत्या आदेश प्रसाद पक्षे शारदाया सरस्वत्या देश कश्मीरमपास्य विहायऽन्यत्राऽन्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थ पक्षेऽन्यस्मिन् देशे न दृष्टो नाऽवलोकित । शारदाप्रसाद यिना में कविताविलासोदगम । कश्मीरदेश विहाय नान्यत्र कुङ्कुमकासरोद्गम इति भावः ।

भाषा

 उत्तम कविता के विकास और केसर दोनो निश्चय ही सगे भाई है । शारदा केआदेश बिना अर्थात् सरस्वती की कृपा विना अच्छी कविता की उत्पति और शारदा देश बिन अर्थात् कश्मीर विना कैसर की उत्पति, अन्यत्र होती हुई मैने नही देखी है ।

रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः ।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥२२॥