पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१ )

राजा के यहाँ रह कर ही अपने काव्य से उसका गुणगान कर उसकी यशःपताका फहराता हैं ।

पृथ्वीपतेः सन्तुि न यस्य पार्श्वे
कवीश्वरास्तस्य कुतो यशांसि ।
भूपाः कियन्तो न बभूवुकुरुर्व्यां जानाति
नामाऽपि न कोऽपि तेषाम् ॥२६॥

अन्वयः

 यस्य पृथ्वीपतेः पार्श्वे कवीश्वराः न सन्ति तस्य यशांसि कुतः । उर्व्यां कियन्तः भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति ।

व्याख्या

 यस्य पृथ्वीपते राज्ञः पाश्र्वे कवीश्वराः कवीन्द्र न सन्ति न शोभन्ते तस्य भूपस्य यशसि कीर्तयः 'यशः कीर्तिः समज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिःइत्यमरः । कुतो, न कुतोऽपीत्यर्थः । यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः। उर्व्यां महीमण्डले कियन्तः कतिसख्याका भूपा राजानो न बभूवुर्न जाताः(परं) तेषां नामाऽपि संज्ञामपि वsपि मनुष्य न जानाति । काव्यकनिबद्धमेव राज्ञां यशचिरस्थायि भवतीति राज्ञां यशसोऽपयशसो वा कविश्वरा एव निदानमिति भावः ।

भाषा

 जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है । इस पृथ्वी पर वया कितने ही राजा ऐसे नहीं हुए है जिनका नाम भी कोई मनुष्य नहीं जानता है ।


भावोऽयमत्राऽपि प्रदशितः।

भुजवनतरुच्छाया मेषा निपेथ्य महोजसा,
     जलधिरशना मेदिन्यासीदसावकुतोभया ।
  स्मृतिमपि न ते यान्ति मया विना यदनुग्रहं,
     प्रकृतिमहते कुर्यैस्तस्मै नमः कविवर्मणे ॥ राजतरङ्गिण्याम् ।