पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५ )

अन्वयः

 चतुर्मुखस्य यस्य चत्वारि काव्यानि चतस्रः श्रुतयः प्रसिद्धाः । असौ सरस्वतीविभ्रमभूः स्वयम्भूः सप्तसु अपि लोकेषु प्रसिद्धः ।

व्याख्या

 चत्वारि मुखानि यस्य स चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्रह्मण सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थ । चत्वारि चतु सख्याकानि काव्यानि काव्यरूपाणि चतस्र श्रुतयो वेदा प्रसिद्धा ख्याता असौ प्रसिद्ध सरस्वत्या वाग्देव्या वाङमयस्य वा विभ्रमाणा विलासाना भूरुत्पत्तिस्थानमाश्रयी वा स्वयम्भूर्ब्रह्मा सप्तस्वपि भूर्भवस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु 'लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधस कन्येति पत्नीतिचेत्युभय लोक प्रसिद्धम् । सरस्वत्या पतिर्ब्रह्मेति हेतो सरस्वती तस्मिन्स्वमञ्जुलविलासादि-चेष्टाभिस्सरसतामापादयति कन्यात्वेनाऽऽनन्दञ्च जनपति ।

भाषा

 जिस चार मुख वाले ब्रह्मा के चार मुखो से निकले हुए चार काव्य चार वेद हैं, एसी प्रसिद्धि है वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातो लोको में प्रसिद्ध है ।

एकस्य सेगातिशयेन शङ्के पङ्करुहस्यासनतां गतस्य ।
आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपदसम्भुजानाम् ॥३२

अन्वयः

 आवनता गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन आराधितः यः अम्बुजाना सकल कुटुम्य लक्ष्मीपद चकार (इति) शङ्के।

व्याख्या

 (ब्रह्मणः) भासनतामुपवेशनस्थानता गतस्य प्राप्तस्यैकस्य कस्यचित्पङ्केरुहस्य सरसीरुहस्य 'पङ्केरुहं' तामरस सारस सरसीरुहम्' इत्यमरः सेवातिशयेनस्वपत्रस्योपसिनदानरूपसेवाप्रकर्षेणाऽराधित सेवितो यो ब्रह्माऽम्बुजाना पद्माना सबल समग्र 'समग्र सकल पुणम्' इत्यमरः । कुतुम्बा जाति कमलजाति मित्यर्थ