पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:( ३३ )

 (स त्वत्पादसेवारजसां प्रभाव इत्यग्रे सम्वन्धः) नीलभ्रमरसमूहेन नीलच्छत्रस्यसाम्यादुपमा। नेत्रेषु पद्मत्वारोपाद्रूपकम् । कृष्ण चञ्चलताराणां लोलालित्वेनाध्यवसितत्वादतिशयोक्तिः । अत्रैतेषामङ्गाङ्गिभावसङ्करः ।

भाषा

 यह जो मेरे सहस्रनेत्र रूपी सहस्र कमलो में स्थित चञ्चल पुतलियो के स्वरूप चञ्चल भ्रमर समूह की नीलिमा के समान नीले रंग का छत्र, राज्य श्री के मुखपर कस्तुरी के तिलक की शोभा दे रहा है । (वह आपकी चरण सेवा की धूली का प्रभाव है। यह ४३ वें श्लोक से सम्बन्धित है ।)

यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण ।
गायन्ति मे शौर्यरसोर्जितानि गीर्वाणसारङ्गदृशो यशांसि ॥४२॥

अन्वयः

 यत् गीर्वाणसारङ्गदृशः रतिश्रमेण नन्दने कल्पमहीरुहाणां छायासु विश्रम्य मे शौर्यरसोर्जितानि यशांसि गायन्ति (स त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेन सम्बन्धः)

व्याख्या

 यदिति वाक्यार्थपरामर्शकः, “स्वामित् स सर्वोपी"त्यत्र तच्च्छब्देनाऽन्वेति । सारङ्गस्य मृगस्य दृगिव दृग् नेत्रं यासां ता गीर्वाणानां देवानां सारङ्गदृशो मृगनयन्यः कान्ता रतिश्रमेण सम्भोगजनितपरिश्रमेण खिन्नाः सत्यो नन्दने नन्दननामकेन्द्रोद्याने 'हय उच्चैः श्रवासूतो मातलिर्नन्दनं वनम्' इत्यमरः । कल्पमहीरुहाणां कल्पवृक्षाणां छायासु विश्रम्य श्रमं निवार्य मे ममेन्द्रस्य शौर्यरसेन वीररसेनोर्जितानि प्रवृद्धानि यशांसि स्तोत्राणि गायन्ति भजन्तीत्यर्थः ।

भाषा

 यह जो सम्भोग से थकी हुई मृगनयनी देवियाँ नन्दन वन में कल्पवृक्ष की छाया में विश्राम कर मेरे वीररस से परिवर्द्धित यशो का गान करती है (वह आपकी चरण सेवा की धूलि का प्रभाव है –यह ४३ वे श्लोक से सम्बन्धित है।)