पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ४] विक्रमाङ्कदेवचरितम् ।

अदृश्यैः कैश्चिदागत्य चिन्तया शून्यचेतसः ।
तस्यामङ्गलवार्तेय कापि कर्णे न्यधोयत ॥ ३३ ॥
शुभाशुभानि बस्ताने संमुखानि शरीरिणाम् ।
प्रतिविम्बसिवायान्ति पूर्वमेषान्तरात्माने ॥ ३४ ॥
अवगाहित निःशेषशास्त्रनिर्मलधीरापे ।
अकारणामसौ प्राप्तः कुमारी यदधरिताम् ॥ ३५ ॥
सर्वस्त्रदानमालोच्य दुर्निमित्तप्रशान्तये ।
अप्रयाणमसौ चक्रे ततः कृष्णनदीतटे ॥ ३६ ॥
स तत्क्षणात्परिग्लानमुखं संमुखपातिनम् ।
ददर्श राजधानीतः प्रधानं दूतमागतम् ॥ २७ ॥
अप्रियावेदने जिङ्कामवगथ्य परामुखीम् ।
कथयन्तमिवानर्थं श्वासैरत्यर्थमायतैः ॥ ३८ ॥
निर्यद्भिरतिमात्रोष्णैर्मुख निःश्वास वायुभिः ।
निवेदयन्तं दुर्वार्त्तावत्यानलमुपस्थितम् ॥ ३९ ॥
ककुभां भर्तृभक्तानां पृच्छतीनां नृपस्थितिम् ।
विद्रवन्तमिवामान्तमत्यन्तत्वरितैः पदैः ॥ ४० ॥
अनर्थवाचवहन महापातकदूषितम् ।
गणयित्वेव धैर्येण सर्वथापि निराकृतम् ॥ ११ ॥
कृतप्रणाममासन्त्रमथ तं राजनन्दनः ।
कुशलं सातपादानामिति पप्रच्छ वत्सलः ॥ ४२ ॥
उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा |
कथयामास नासाग्र विलुठद्वाष्पशीकरः ॥ ४३ ॥
विधेहि दृढमात्मानं मावधीरय धीरताम् ।

IV. 40. पृच्छंतीनां Ms. — IV. 42, बचल: Ms. ३१.