द्वितीयः सर्गः । अथ कल्याणनाम्नीं चालुक्यराजधानीं पञ्चविंशतिश्लोकैर्वरर्ग- यति महाकविः । चकार कल्यरगटमिति क्रमादसौ पुरं परार्घ्यं पृथिवीपुरन्दरः । यदुच्चहर्म्यावलिदीपसंपदां विभाव्यते कञ्जलसंनिभं नभः ॥१॥
अन्वयः
शसौ पृथिवीपुरन्दरः क्रमात् कल्यरगम् इति परार्ध्यं पुरं प्चकार यदुच्च- हर्म्यावलिदीपसंपदां कज्जलसनिनं नभः विभाव्यते ।
व्याख्या
असावाहवमल्लदेवनामा पृथिव्याः पृथ्व्याः पुरन्दर इन्द्रः ऋमात् कियता कालेन कल्याणमिति कल्याणनामकं पराध्यं श्रेष्ठं ‘परार्ध्याग्रप्राग्रहरप्राग्रयाग्रया- ग्रीयमग्रियम्' इत्यमरः । पुरं नगरं चकार निर्मापयामास यस्य पुरस्य हर्म्याणि प्रासादास्तेषामावलिः पंक्तिः ‘वीथ्यालिरावलिः पंक्तिः श्रेणीत्यमरः' । तस्या दीपसंपदां दीपजालानां कज्जलसंनिभं कज्जलसदृशं नभोऽन्तरिक्ष ‘नभोन्तरिक्षं- गगनमनन्तं सुरवत्मं खम्' इत्यमरः । विभाव्यते ज्ञायतेस्म । उत्प्रेक्षालक्ङारः । सर्गेऽस्मिन्वंशस्थच्छन्दः ‘जतौतु वंशस्थमुदीरितं जरौ' ।