पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

येन नभश्धरीणां पिपासापरितापशान्तये समुच्छलन्मौक्तिककान्तिवां रिभिः सुरसद्ममूर्धगैः सुवर्णकुम्भैः प्रपा निर्मिता इव (प्रतीयते) । व्याख्या येन कल्याणपुरेण नभश्चरीणामाकाशाविहरणशीलानामप्सरसां देवाङ्गनानां बा पातुमिच्छा पिपासा तृषा तस्याः परितापः सन्तापस्तस्य शान्तये दूरीकरणाय समुच्छलन्त्य ऊध्र्व प्रसारिण्यो मौक्तिकानां मुक्तानां कान्तय इव वारीणि जलानि स्वच्छत्वाद्येषु तैः सुराणां देवानां सद्मानि मन्दिराणि तेषां मूर्धिन गच्छन्तीति सुरसद्ममूर्धगास्तैर्देवमन्दिरशिरोग्रधार्यमाणैः सुवर्णकुम्भैः स्वर्णनिर्मितघटैः ‘कुम्भौ घटेऽत्र मूर्धाशौ डिम्भौ तु शिशुबालिशौ' इत्यमरः । प्रपा पानीयशालिका ‘प्रपा पानीयशालिकेत्यमरः' । निर्मितेव सम्पादितेव प्रतीयते । उत्प्रेक्षालङ्कारोऽति शयोक्तिश्च । भाषा जिस नगर ने आकाश में उडने वाली अप्सरा या देवाङ्गनाओं की प्यास के कष्ट को दूर करने के लिये देवताओं के मन्दिरों के ऊपर रक्खे हुए, ऊपर फैलने वाली मोतियों की कान्ति के सदृश कान्ति वाले जल से युक्त, सोने के घड़ों से मानों पोसरा बैठाया था । भाषा जगत्तूर्यीकार्मणकर्मणि चमं निरीच्य लीलायितमेणचतुषाम् । स्मरेण यत्र स्मरता पराभवं भवायभूयः परिबोध्यते धनुः ॥१४॥ अन्व्यह:

यत्र पराभवं स्मरता स्मरेण एणचक्षुषां लीलायितं जगत्तयीकार्मण